This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
 
कतिचिदतिवाहयामास वर्षगणान् ॥
 

 
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभ श्रीकण्ठ मतप्रतिष्ठापनाचार्य चतुरधिक-

शतप्रबन्धनिर्वाहक श्रीमन्महाव्रतयाजि श्रीमदप्पयदीक्षितसोदर्य

श्रीमदाच्चान्नूदीक्षितपौत्रेण नारायणदीक्षितात्मजेन

श्रीभूमिदेवीगर्भसंभवेन श्रीनीलकण्ठदीक्षितेन

विरचिते श्रीनीलकण्ठविजये चम्पुकाव्ये
 

प्रथम आश्वासः ॥
 

 
[commentary]
 
'शाश्वतस्तु ध्रुवो नित्यः' इत्यमरः । स्थिरः अभवत् । देवराज्यं देवसाम्राज्यं दैत्ये
दितिपुत्रे बलौ, शासति सति पालयति सति । त्रिलोका एव त्रैलोक्यं, त्रिभुवन-
मित्यर्थः । इत्थमुक्तप्रकारमभवत् तस्थौ । परि ( री री) क्षिदा दिमहाराजेषु पालयत्स्वपि
यः कलिः प्रवर्तितुमुत्सहते स कलिदैत्ये शासति सति प्रवर्तत इति किमु
वक्तव्यमिति भावः । दैत्यवृत्तान्तमुपवर्ण्य इदानीं देववृत्तान्तं वर्णयितुमारभते ॥

अपेति ॥ तदा तत्काले अपक्रान्तः प्रस्थितः शचीपति रिन्द्रस्सर्वैस्सुपर्वभिः देवैः
सह निखिलभुवनेषु सुन्दरं दर्शनीयं, मन्दरमद्रिं, बृहस्पतेगुरोराज्ञया, अभिगम्य
प्राप्य, क्वचिदन्तर्हित एव तिरोहित एव, वर्षाणां शरदां गणान् सङ्घानतिवाह-
यामास गमयामासेत्यर्थः । महदप्रियकारी को वा निर्विशङ्कः परेषां दृग्भाजनं
भवितुमुत्सहत इति भावः ॥
 

 
इति श्रीमद्भारद्वाजवेल्लालमहा देवसूरिविरचिते नीलकण्ठविजयव्याख्याने

विबुधानन्दाख्याने प्रथमाश्वासविवृतिः ॥
 

 
॥ प्रथमाश्वासः समाप्तः ॥