2023-08-26 08:55:01 by Bharadwajraki
This page has been fully proofread twice.
किञ्च
विद्वांसः प्रथमेऽभवन्विवसनाः सौत्रान्तिकाः साधवो
मुख्या [^१]माध्यमिकास्त्रिलोकगुरवश्चार्वाकतन्त्रे स्थिताः ।
पाषण्डा निगमागमव्यसनिनः कालः कलिः शाश्वतो
दैत्ये शासति देवराज्यमजनि त्रैलोक्यमित्थं तदा ॥ ५१ ॥
अपक्रान्तश्च तदा शचीपतिः, अभिगम्य सह सर्वैः सुपर्वभिरखिलभुवनसुन्दरं मन्दरं शैलं अनुज्ञया बृहस्पतेः अन्तर्हित एव
[commentary]
नेहन्त इति भावः । तदानीं नास्तिकानामेव प्राबल्यमित्याह ॥ किञ्चेति ॥ दैत्ये दितिपुत्रे बलौ । देवराजस्य इन्द्रस्य कर्म देवराज्यं, यद्वा देवानां राज्यमाधिपत्यं, राज्ञः कर्म भावो वा राज्यमिति वृत्तेः । शासति अनुतिष्ठति सति । चार्वाकाणां प्रत्यक्षैकप्रामाण्यवादिनां, तन्त्रे शास्त्रे स्थिताः, विवसना दिगम्बराः देहात्मवादिनः, प्रथमे श्रेष्ठाः, अभवन्नित्यर्थः । 'तन्त्रं प्रधाने सिद्धान्ते' इत्यमरः । सौत्रान्तिकाः इन्द्रियात्मवादिनः, एते तदा साधवः सभ्या अभवन्नित्यर्थः । यथा आस्तिकानां धर्मशास्त्रज्ञा इति भावः । माध्यमिकाः आलयविज्ञानधारात्मवादिनः, मुख्याः प्रथमगणनीयाः । त्रिलोकगुरवः तत्त्वोपदेष्टार आसन् । अत्रेदं बोध्यम् । नास्तिकानां बुद्धशिष्यत्वाद्बौद्धा इति संज्ञा । बुद्धस्य चत्वारः शिष्याः, सौत्रान्तिको वैभाषिको योगाचारो माध्यमिक इति । तथा सुगतस्य शिष्यास्सौगताः तेषामार्हता इति नामान्तरम् । एत एव तत्र तत्र नास्तिका इति चार्वाका इति
क्षपणका इति लोकायतिका इति बहुभिर्नामभिः व्यवह्रियन्ते । तेषां परस्परवैलक्षण्यादिकं ग्रन्थविस्तरभयात्प्रकृतानुपयोगाच्च न लिख्यत इति । पाषण्डाः शिवविष्णण्वाद्यन्यतमैकोत्कृष्टत्ववादिनः । तथा चोक्तं 'शिवविष्णुगणाध्यक्षसूर्यदुर्गासु कस्यचित् । एकस्योत्कर्षवादी यस्स पाषण्ड इतीरितः ॥" इति । अमरकारस्तु 'पाषण्डास्सर्वलिङ्गिन' इत्याह । निगमागमयोः वेदशास्त्रयोः व्यसनिनः शास्त्रव्यसनं शास्त्रपरिशीलनमेव, तद्वन्त इति तात्पर्यार्थः । अभवन्निति योजना । कलिकालस्तुरीययुगकाल एव । 'चतुर्थेऽपि युगे कलिः' इत्यमरः । शाश्वतः,
[^१] अत्र, सर्वेषां नास्तिकानां बुद्धशिष्यत्वात् बौद्धसंज्ञा इति टीकोक्तं न युक्तम् । सौत्रान्तिकादयः माध्यमिकान्ताः चत्वारः बुद्धशिष्याः । ते एव बौद्धाः, सौगताः, क्षपणका: इति, लोकायतिकाः चार्वाका इति, आर्हताः जैना इति च प्रामाणिकानां निर्णयः इति बोध्यम् ।