2023-07-21 05:24:38 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  प्रथमाश्वासः
  
  
  
   
  
  
  
  किश्ञ्च
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  विद्वांसः प्रथमेऽभवन्विवसनाः सौत्रान्तिकाः साधवो
  
  
  
  
  
  
  
  मुख्या '[^१]माध्यमिका
  
  
  
  स्त्रिलोकगुरवश्चार्वाकतन्त्रे स्थिताः ।
  
  
  
  
  
  
  
  पाषण्डा निगमागमव्यसनिनः कालः कलिः शाश्वतो
  
  
  
  
  
  
  
  दैत्ये शासति देवराज्यमजनि त्रैलोक्यमित्थं तदा ॥ ५१ ॥
  
  
  
  
  
  
  
   
  
  
  
  अपक्रान्तश्च तदा शचीपतिः, अभिगम्य सह सर्वैः सुपर्वभि-
  
  
  
  रखिलभुवनसुन्दरं मन्दरं शैलं अनुज्ञया बृहस्पतेः अन्तर्हित एव
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  नेहन्त इति भावः । तदानीं नास्तिकानामेव प्राबल्यमित्याह ॥ किञ्चेति ॥
  
  
  
   दैत्ये दितिपुत्रे बलौ । देवराजस्य इन्द्रस्य कर्म देवराज्यं, यद्वा देवानां राज्यमा-
  
  
  
  धिपत्यं, राज्ञः कर्म भावो वा राज्यमिति वृत्तेः । शासति अनुतिष्ठति सति ।
  
  
  
   चार्वाकाणां प्रत्यक्षैक प्रामाण्यवादिनां, तन्त्रे शास्त्रे स्थिताः, विवसना दिगम्बराः
  
  
  
   देहात्मवादिनः, प्रथमे श्रेष्ठाः, अभवन्नित्यर्थः । 'तन्त्ररं प्रधाने सिद्धान्ते' इत्य-
  
  
  
  मरः । सौत्रान्तिकाः इन्द्रियात्मवादिनः, एते तदा साधवः सभ्या अभवन्नित्यर्थः ।
  
  
  
   यथा आस्तिकानां धर्मशास्त्रज्ञा इति भावः । माध्यमिकाः आल्लयविज्ञानधारात्म-
  
  
  
  वादिनः, मुख्याः प्रथमगणनीयाः । त्रिलोकगुरवः तत्त्वोपदेष्टार आसन् । अत्रेदं
  
  
  
   बोध्यम् । नास्तिकानां बुद्धशिष्यत्वाड़ौद्बौद्धा इति संज्ञा । बुद्धस्य चत्वारः शिष्याः,
  
  
  
   सौत्रान्तिको वैभाषिको योगाचारो माध्यमिक इति । तथा सुगतस्य शिष्यास्सौ-
  
  
  
  गताः तेषामार्हता इति नामान्तरम् । एत एव तत्र तत्र नास्तिका इति चार्वाका इति
  
  
  
  
  
  
  
  क्षपणका इति लोकायतिका इति बहुभिर्नामभिः व्यवह्निरियन्ते । तेषां परस्पर-
  
  
  
  वैलक्षण्यादिकं ग्रन्थविस्तरभयात्प्रकृतानुपयोगाच्च न लिख्यत इति । पाषण्डा:
  
  
  
  डाः शिवविंविष्ण्णवाद्यन्यतमैकोत्कृष्टत्ववादिनः । तथा चोक्तं 'शिवविष्णुगणाध्यक्षसूर्यदुर्गा
  
  
  
  सु कस्यचित् । एकस्योत्कर्षवादी यस्स पाषण्ड इतीरितः ॥" इति । अमरकारस्तु
  
  
  
   'पाषण्डास्सर्वलिङ्गिन' इत्याह । निगमागमयोः वेदशास्त्रयोः व्यसनिनः शास्त्र -
  
  
  
  ।
  
  
  
  व्यसनं शास्त्रपरिशीलनमेव, तद्वन्त इति तात्पर्यार्थः । अभवन्निति योजना ।
  
  
  
   कलिकालस्तुरीययुगकाल एव । 'चतुर्थेऽपि युगे कलिः' इत्यमरः । शाश्वतः,
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] अत्र, सर्वेषां नास्तिकानां बुद्धशिष्यत्वात् बौद्धसंज्ञा इति टीकोफक्तं न युक्तम् ।
  
  
  
   सौत्रान्तिकादयः माध्यमिकान्ताः चत्वारः बुद्धशिष्याः । ते एव बौद्धाः, सौगताः,
  
  
  
   क्षपणका: इति, लोकायतिका:काः चार्वाका इति, आईता:र्हताः जैना इति च प्रामाणिकानां
  
  
  
   निर्णयः इति बोध्यम् ।