2023-08-26 08:51:20 by Bharadwajraki
This page has been fully proofread twice.
रक्षोघ्नमन्त्रकुशलाञ्च्छतशो महर्षीन्
प्रत्यक्षिपन्नरकवेश्मसु दैत्यदूताः ॥ ४९ ॥
ब्रह्मर्षयोऽपि दनुजेन्द्रसभां प्रविष्टा
मन्त्राक्षराणि मघवादिपदाङ्कितानि ।
ऊहेन दानवपदान्युपवेशयन्तो
हर्षाय पेठुरसुरेन्द्रपुरोहितानाम् ॥ ५० ॥
[commentary]
ते मन्त्राश्च । 'रक्षोहणो वलगहन' इत्यादिमन्त्राः तेषु कुशलान् समर्थान् । शतशः अनेकशः अनेकानित्यर्थः । महान्तश्च ते ऋषयश्चेति कर्मधारयः । तान् नरका एव वेश्मानि सदनानि, तेषु प्रत्यक्षिपन् पातयामासुः । स्वाभ्युदयकाले स्वीयान् के वा [^१]नोद्धरन्तीति भावः । केचन महर्षयोऽपि तदनुकूला एव बभूवुरित्याह ॥ ब्रह्मेति ॥ ब्रह्मर्षयोऽपि, दनुजानामसुराणामिन्द्रस्य बलेः, सभां सुधर्मापरपर्यायामिति भावः । प्रविष्टास्सन्तः मघवादिपदैरिन्द्रादिवाचकपदैरङ्कितानि
चिह्नितानि, सहितानीत्यर्थः । यानीति शेषः । मन्त्राणां अक्षराणि वर्तन्त इति शेषः । तेषामक्षराणां स्थान इति शेषः । [^२]ऊहेन, दानववाचकानि च तानि पदानि च उपवेशयन्तः प्रक्षिपन्तस्सन्तः । ऊहो नाम मन्त्रस्थप्रातिपदिकविभक्तिस्थाने आदेशवत्क्रतुकालोपयोगिप्रातिपदिकविभक्तिवचनान्तरप्रक्षेप इति मीमांसकाः । यथा 'इन्द्राय त्वा जुष्टं निर्वपामि’ इति मन्त्रे इन्द्रायेत्यस्य स्थाने, सूर्यायेति, अग्नय इत्यस्य स्थाने सोमायेति सूर्याग्निसोमपदानामन्यतमस्योचितप्रक्षेपः । तिङन्तस्थलेऽपि 'स नो मृडयतां' 'तौ नो मृडयेतां' 'ते नो मृडयन्ताम्' इत्यादि । तथाच 'इन्द्रो मे बले श्रित' इति मन्त्रे इन्द्रपदस्थाने बलिपदं, एवं 'तन्नो वरुणो राजे’ति मन्त्रे वरुणपदस्थाने, शम्बरपदप्रक्षेपं, असुरेन्द्रस्य पुरोहितानां हर्षाय पेठुः जेपुः । स्वक्षेमलाभार्थं के वा अकार्यं कर्तुं
[^१] 'रक्षिता स्वस्य धर्मस्य, स्वजनस्य च रक्षिता' इति प्राचेतसः आदिकविः वाल्मीकिमुनिः 'रामः स्वजनपालकः' इति तद्गुणेषु स्वीयोद्धरणमन्यतमं वर्णयति ॥
[^२] मन्त्रोहः, संस्कारोहः, सामोहः इति त्रिविधः मुख्य ऊहः, पदान्तरप्रक्षेपादयस्तु गौणोहः अर्थानुरोधात्कर्तव्यः, मन्त्राणां प्रयोगसमवेतार्थस्मारकाणां दृष्टार्थत्वात् इत्यादिकं जैमिनीये नवमाध्याये द्रष्टव्यम् ॥
प्रत्यक्षिपन्नरकवेश्मसु दैत्यदूताः ॥ ४९ ॥
ब्रह्मर्षयोऽपि दनुजेन्द्रसभां प्रविष्टा
मन्त्राक्षराणि मघवादिपदाङ्कितानि ।
ऊहेन दानवपदान्युपवेशयन्तो
हर्षाय पेठुरसुरेन्द्रपुरोहितानाम् ॥ ५० ॥
[commentary]
ते मन्त्राश्च । 'रक्षोहणो वलगहन' इत्यादिमन्त्राः तेषु कुशलान् समर्थान् । शतशः अनेकशः अनेकानित्यर्थः । महान्तश्च ते ऋषयश्चेति कर्मधारयः । तान् नरका एव वेश्मानि सदनानि, तेषु प्रत्यक्षिपन् पातयामासुः । स्वाभ्युदयकाले स्वीयान् के