2023-07-21 05:13:32 by Bharadwajraki
This page has been fully proofread once and needs a second look.
प्रत्यक्षिपन्नरकवेश्मसु दैत्यदूताः ॥ ४९ ॥
ब्रह्मर्षयोऽपि दनुजेन्द्रसभां प्रविष्टा
मन्त्राक्षराणि मघवादिपदाङ्कितानि ।
ऊहेन दानवपदान्युपवेशयन्तो
हर्षाय पेठुरसुरेन्द्रपुरोहितानाम् ॥ ५० ॥
[commentary]
ते मन्त्राश्च । 'रक्षोहणो वलगहन' इत्यादिमन्त्राः तेषु कुशलान् समर्थान् । शत
चिह्नितानि, सहितानीत्यर्थः । यानीति शेषः । मन्त्राणां अक्षराणि वर्तन्त इति
1.
[^१] 'रक्षिता स्वस्य धर्मस्य, स्वजनस्य च रक्षिता' इति प्राचेतसः आदिकविः
2.
[^२] मन्त्रोहः, संस्कारोहः, सामोहः इति त्रिविधः मुख्य ऊहः, पदान्तरप्रक्षेपा