2023-08-26 08:46:29 by Bharadwajraki
This page has been fully proofread twice.
कयाचिदेवाज्ञया चिरलब्धसुस्थमिव पर्यवस्थाप्य नगरं, क्षणादाघोषयामासुरास्कन्दनोपरमजयकाहळीम् । आदिष्टाश्च दिक्पालपदेष्वसुरवराः स्वयमनतिक्रामन्तो धर्ममौशनसम्, अनुल्लङ्घमाना बलेः शासनं, अनुवर्तमाना हिरण्याक्षदर्शितां सरणिं, अवलुम्पन्तो वैदिकं पन्थानं, अप्रमत्ताः स्वं स्वमधिकारमनुपालयाञ्चक्रिरे ।
देवद्विषश्चिरतरं निरयेषु मग्ना-
नुत्तार्य दैवतपदेषु निवेशयन्तः ।
[commentary]
'महत्सूल्लोलकल्लोलौ' इत्यमरः । तेषां, हल्लोहलः वेगः, तस्य शमनं विलोपनं, शीलं स्वभावो यस्यास्तया । तनीयस्या सूक्ष्मया, वेलया मर्यादयेव, स्थितया । 'वेला कालमर्यादयोरपि' इत्यमरः । विरमत तूष्णीम्भवत, इति कयाचिद्यस्यकस्यचित्सम्बन्धिन्येत्यर्थः । आज्ञया निदेशेन । आस्कन्दनाद्बलादाक्रमणादुपरमः तूष्णीम्भावः, स च जयश्चेत्येतयोर्बोधिका च सा काहळी चेति, शाकपार्थिवादि[^१]त्वात्समासः । तां काहळीं शृङ्गवाद्यं, आघोषयासासुः नादयामासुः । अथ
तेषामाधिकारिकक्रमानाह ॥ आदिष्टा इति ॥ दिक्पालानां, पदेषु, स्थानेषु, आज्ञप्ता[^२] नियुक्ताः, स्वयं औशनसं; उशनसा शुकेण प्रणीतं, धर्ममनतिक्रामन्तः अत्यजन्तः, अनुल्लङ्घमाना इति यावत् । बलेः, शासनं निदेशं, अनुल्लङ्घमाना अनुत्सृजन्तः अनतिक्रामन्त इति यावत् । हिरण्याक्षेण, प्राचीनासुरेण दर्शितां, सरणिमार्गमनुसृत्य, वैदिकं वेदोक्तं, पन्थानं, अवलुम्पन्तः छिन्दन्तः । अप्रमत्ताः असुरा इति शेषः । स्वं स्वीयं, अधिकारं प्रक्रियां, 'प्रक्रिया त्वधिकारः स्यात्' इत्यमरः ।
अनुपालयांचक्रिरे पालयामासुः । स्वर्गसाम्राज्यलाभानन्तरं असुराः किं कुर्वन्तीत्यत आह ॥ देवेति ॥ दैत्यानां दूताः सन्देशहराः, चिरतरं, निरयेषु नरकेषु । 'निरयो दुर्गतिस्त्रियाम्' इत्यमरः । मग्नान् स्थितानिति तात्पर्यार्थः । देवानां द्विषोऽसुरानित्यर्थः । उत्तार्य उत्तरणं कृत्वा दैवतानां मरुद्वसुप्रभृतीनां, पदेषु स्थानेषु, निवेशयन्तः स्थापयन्तस्सन्तः । रक्षांसि यातूनि, घ्नन्तीति रक्षोघ्नाः ते च
[^१] 'बोधिका' -- इति मध्यमपदलोपात् शाकपार्थिवादित्वं प्रियरूपमध्यमपदलोप इव ॥
[^२] 'आज्ञप्ताः' इति व्याख्यापाठः, मूलपाठस्तु 'आदिष्टाः' इति ॥