2023-07-21 04:55:53 by Bharadwajraki
This page has been fully proofread once and needs a second look.
  
  
  
  कयाचिदेवाज्ञया चिरलब्धसुस्थमिव पर्यवस्थाप्य नगरं, क्षणादाघोष-
  
  
  
  यामासुरास्कन्दनोपरमजयकाहळीम् । आदिष्टाश्च दिक्पालपदेष्वसुरवराः
  
  
  
   स्वयमनतिक्रामन्तो धर्ममौशनसम्, अनुल्लङ्घमाना बलेः शासनं,
  
  
  
   अनुवर्तमाना हिरण्याक्षदर्शितां सरणिं, अवलुम्पन्तो वैदिकं पन्थानं,
  
  
  
   अप्रमत्ताः स्वं स्वमधिकारमनुपालयाञ्चक्रिरे ।
  
  
  
   
  
  
  
देवद्विषश्विचिरतरं निरयेषु मझाग्ना-
  
  
  
नुत्तार्य दैवतपदेषु निवेशयन्तः ।
   
  
  
  
[commentary]
   
  
  
  
'महत्सूल्लोलकल्लोलौ' इत्यमरः । तेषां, हल्लोहल:लः वेगः, तस्य शमनं विलोपनं,
  
  
  
   शीलं स्वभावो यस्यास्तया । तनीयस्या सूक्ष्मया, वेलया मर्यादयेव, स्थितया ।
  
  
  
   'वेला कालमर्यादयोरपि' इत्यमरः । विरमत तूष्णीम्भवत, इति कयाचिद्यस्य-
  
  
  
  कस्यचित्सम्बन्धिन्येत्यर्थः । आज्ञया निदेशेन । आस्कन्दनाद्वबलादाक्रमणादुपरमः
  
  
  
   तूष्णीम्भावः, स च जयश्चेत्येतयोर्बोधिका च सा काहळी चेति, शाकपार्थिवादि -
  
  
  
  [^१]त्वात्समास:सः । तां काहळीं शृङ्गवाद्यं, आघोषयासासुः नादयामासुः । अथ
  
  
  
तेषामाधिकारिकक्रमानाह ॥ आदिष्टा इति ॥ दिक्पालानां, पदेषु, स्थानेषु,
  
  
  
   आज्ञप्ता[^२] नियुक्ताः, स्वयं औशनसं; उशनसा शुकेण प्रणीततं, धर्ममनतिक्रामन्तः
  
  
  
   अत्यजन्तः, अनुल्लङ्घमाना इति यावत् । बले:लेः, शासनं निदेशं, अनुल्लङ्घमाना अनुत्सृ-
  
  
  
  जन्तः अनतिक्रामन्त इति यावत् । हिरण्याक्षेण, प्राचीनासुरेण दर्शितां, सरणि
  
  
  
  मार्गमनुसृत्य, वैदिकं वेदोक्तं, पन्थानं, अवलुम्पन्तः छिन्दन्तः । अप्रमत्ताः असुरा
  
  
  
   इति शेषः । स्वं स्वीयं, अधिकारं प्रक्रियां, 'प्रक्रिया त्वधिकारः स्यात्' इत्यमरः ।
  
  
  
अनुपाल्लयांचक्रिरे पाल्लयामासुः । स्वर्गसाम्राज्यलाभानन्तरं असुराः किं कुर्वन्तीत्यत
  
  
  
   आह ॥ देवेति ॥ दैत्यानां दूता:ताः सन्देशहराः, चिरतरं, निरयेषु नरकेषु ।
  
  
  
   'निरयो दुर्गतिस्त्रियाम्' इत्यमरः । ममाग्नान् स्थितानिति तात्पर्यार्थः । देवानां
  
  
  
   द्विषोऽसुरानित्यर्थः । उत्तार्य उत्तरणं कृत्वा दैवतानां मरुद्वसुप्रभृतीनां, पदेषु
  
  
  
   स्थानेषु, निवेशयन्तः स्थापयन्तस्सन्तः । रक्षांसि यातूनि, घ्नन्तीति रक्षोघ्नाः ते च
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
1.[^१] 'बोधिका ' –' -- इति मध्यमपदलोपात् शाकपार्थिवादित्वं प्रियरूपमध्यम-
  
  
  
  पदलोप इव ॥
  
  
  
   
  
  
  
  2,[^२] 'आज्ञप्ताः' इति व्याख्यापाठः, मूलपाठस्तु ' आदिष्टाः' इति ॥
  
  
  
   
  
  
  
  
देवद्विषश्
नुत्तार्य दैवतपदेषु निवेशयन्तः ।
[commentary]
'महत्सूल्लोलकल्लोलौ' इत्यमरः । तेषां, हल्लोह
तेषामाधिकारिकक्रमानाह ॥ आदिष्टा इति ॥ दिक्पालानां, पदेषु, स्थानेषु,
अनुपा
1.