This page has not been fully proofread.

प्रथमाश्वासः
 
कयाचिदेवाज्ञया चिरलब्धसुस्थमिव पर्यवस्थाप्य नगरं, क्षणादाघोष-

यामासुरास्कन्दनोपरमजयकाहळीम् । आदिष्टाश्च दिक्पालपदेष्वसुरवराः

स्वयमनतिक्रामन्तो धर्ममौशनसम्, अनुल्लङ्घमाना बलेः शासनं,

अनुवर्तमाना हिरण्याक्षदर्शितां सरणिं, अवलुम्पन्तो वैदिकं पन्थानं,

अप्रमत्ताः स्वं स्वमधिकारमनुपालयाञ्चक्रिरे ।
 

 
देवद्विषश्विरतरं निरयेषु मझा-

नुत्तार्य दैवतपदेषु निवेशयन्तः ।
 

 
'महत्सूल्लोलकल्लोलौ' इत्यमरः । तेषां, हल्लोहल: वेगः, तस्य शमनं विलोपनं,

शीलं स्वभावो यस्यास्तया । तनीयस्या सूक्ष्मया, वेलया मर्यादयेव, स्थितया ।

'वेला कालमर्यादयोरपि' इत्यमरः । विरमत तूष्णीम्भवत, इति कयाचिद्यस्य-

कस्यचित्सम्बन्धिन्येत्यर्थः । आज्ञया निदेशेन । आस्कन्दनाद्वलादाक्रमणादुपरमः

तूष्णीम्भावः, स च जयश्चेत्येतयोर्बोधिका च सा काहळी चेति, शाकपार्थिवादि -

त्वात्समास: । तां काहळीं शृङ्गवाद्यं, आघोषयासासुः नादयामासुः । अथ

तेषामाधिकारिकक्रमानाह ॥ आदिष्टा इति ॥ दिक्पालानां, पदेषु, स्थानेषु,

आज्ञप्ता नियुक्ताः, स्वयं औशनसं; उशनसा शुकेण प्रणीत, धर्ममनतिक्रामन्तः

अत्यजन्तः, अनुल्लङ्घमाना इति यावत् । बले:, शासनं निदेशं, अनुल्लङ्घमाना अनुत्सृ-

जन्तः अनतिक्रामन्त इति यावत् । हिरण्याक्षेण, प्राचीनासुरेण दर्शितां, सरणि

मार्गमनुसृत्य, वैदिकं वेदोक्तं, पन्थानं, अवलुम्पन्तः छिन्दन्तः। अप्रमत्ताः असुरा

इति शेषः । स्वं स्वीयं, अधिकारं प्रक्रियां, 'प्रक्रिया त्वधिकारः स्यात्' इत्यमरः ।

अनुपाल्यांचक्रिरे पाल्यामासुः । स्वर्गसाम्राज्यलाभानन्तरं असुराः किं कुर्वन्तीत्यत

आह ॥ देवेति ॥ दैत्यानां दूता: सन्देशहराः, चिरतरं, निरयेषु नरकेषु ।

'निरयो दुर्गतिस्त्रियाम्' इत्यमरः । ममान् स्थितानिति तात्पर्यार्थः । देवानां

द्विषोऽसुरानित्यर्थः । उत्तार्य उत्तरणं कृत्वा दैवतानां मरुद्वसुप्रभृतीनां, पदेषु

स्थानेषु, निवेशयन्तः स्थापयन्तस्सन्तः । रक्षांसि यातूनि, नन्तीति रक्षोघ्नाः ते च
 

 
"
 

 
1. 'बोधिका ' – इति मध्यमपदलोपात् शाकपार्थिवादित्वं प्रियरूपमध्यम-

पदलोप इव ॥
 

 
2, 'आज्ञप्ताः' इति व्याख्यापाठः, मूलपाठस्तु ' आदिष्टाः' इति ॥