This page has been fully proofread once and needs a second look.

आसीनाः क्षणममरसभान्तरे, परिष्वज्यमानाः परस्परं, प्रशस्यमाना वन्दिमागधैः, अभिनन्द्यमानाः कुलवृद्धैः, अनुगृह्यमाणा भार्गवेण, निष्क्रम्य ततो बहिरचिरपरिगृहीतविजयेन्दिरापरिरम्भसम्भृतकुचकुम्भकुङ्कुमक्षोदैरिव सेनारजोभिरभिरञ्जिताः, निरङ्कुशचङ्क्रम्यमाणविश्शृङ्खलदैत्यसङ्घबाहाबलोन्मुक्तहाहारवमालक्ष्य सर्वतो नगरम्, उल्लोलजलधिकल्लोलहल्लोहलशमनशीलया वेलयेव तनीयस्या विरमतेति
 
[Commentary]
 
सघर्मां सदृशीं, सुधर्मां देवसभायां अध्यासाञ्चक्रिरे, तस्थुरित्यर्थः। 'अघि । 'अधिशीङ्स्थासां कर्म' (पा.सू. १.४.४६) इति कर्मत्वम् । अधिपूर्वात् 'आस उपवेशने[^१]' इति धातोः 'दयायासश्च' (पा.सू. ३.१.३७3) इत्याम् । 'कृञ्चानुप्रयुज्यते....' (३.१.४०) इति कृधातोरनुप्रयोगः, ततो लिडिति प्रक्रिया बोध्या । पुरप्रवेशानन्तरं पुरे दानवैरनुष्ठितं वृत्तं वर्णयितुमारभते ॥ आसीना इति ॥ अमरसभायाः सुधर्मायाः, अन्तरे क्षणं आसीनाः वर्तमानाः । परस्परमितरेतरं, [^२]अभिष्वज्यमानाः आश्लिष्यमाणाः । वन्दिभिः स्तुतिपाठकैः, मागधैः घाण्टिकैः । अनयोरीषद्विशेषः, अतो न पौनरुक्त्यम् । 'वन्दिनः स्तुतिपाठकाः' 'चाक्रिका घाण्टिकास्समाः,' 'स्युर्मागधाः' इति सर्वत्रामरः । प्रशस्यमानाः स्तूयमाना, कुलवृद्धैरभिनन्द्यमानाः श्लाघ्यमानाः । भार्गवेणानुगृह्यमाणाः अनुग्रहभाजनीकृताः । ततः सुधर्मातः, बहिः निष्क्रम्य निर्गत्य, अचिरं तत्कालं, परिगृहीता स्वीकृता, या विजयेन्दिरा, तस्याः परिरम्भेण आलिङ्गनेन, सम्भृतानि सम्पादितानि कुचकुम्भयोस्सम्बन्धीनि, यानि कुङ्कुमानि अङ्गरागविशेषाः, तेषां क्षोदैश्चूर्णैरिव स्थितैः । 'अथ कुङ्कुमम् । काश्मीरजन्माग्निभवं' 'चूर्णे क्षोदस्समुत्पिञ्जपिञ्जलौ' इति च अमरः । सेनानां रजोभिः पांसुभिरभिरञ्जिताः व्याप्ताः । असुरा इति शेषः । सर्वतः परितः, निरङ्कुशं लक्षणया निर्भयं यथा तथेत्यर्थः । चङ्क्रम्यमाणाः[^३] अतिशयेन चरन्तः, विशृङ्खलाः निर्निरोधाः ये दैत्यानां सङ्घाः, तेषां बाहाः भुजाः । 'बाहाबाहुभुजास्स्मृता' इत्यमरसुधायां दामोदरः । तद्बलैः शौर्यैरुन्मुक्तः कृतः, हाहारवो यस्मिंस्तत् । नगरं आलक्ष्य दृष्ट्वा । उल्लोला महान्तः, ये जलधेः कल्लोलाः तरङ्गाः ।
 
[^१] 'आस-उपवेशने' -- अयं धातुरादादिकः पृच्यन्तेष्वनुदात्तेत्सु चतुर्थः आत्मनेपदी ॥
 
[^२] 'परिष्वज्यमानाः' इति मूलपाठः । 'अभिष्वज्यमानाः इति व्याख्यापाठः ।
 
[^३] चङ्क्रम्यमाणाः -- इति क्रमधातोः क्रियासमभिहारे यङि, शानचि रूपम् । अत एषातिशयेन चरन्तः इत्यर्थलाभः ।