2023-07-20 11:03:22 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  नीलकण्ठ विजये सव्याख्याने
  
  
  
   
  
  
  
  आसीनाः क्षणममरसभान्तरे, परिष्वज्यमानाः परस्परं, प्रशस्यमाना
  
  
  
   वन्दिमागधैः, अभिनन्द्यमानाः कुलवृद्धैः, अनुगृह्यमाणा भार्गवेण,
  
  
  
   निष्क्रम्य ततो बहिरचिरपरिगृहीतविजयेन्दिरापरिरम्भसम्भृतकुचकुम्भ-
  
  
  
  कुङ्कुमक्षोदेखिदैरिव सेनारजोभिरभिरञ्जिताः, निरङ्कुशचङ्क्रम्यमाण-
  
  
  
  विश्शृङ्खलदैत्यसङ्घबाहाबलोन्मुक्तहाहारवमालक्ष्य सर्वतो नगरम्, उल्लोल-
  
  
  
  जलधिकल्लोलहल्लोहल शमनशीलया वेलयेव तनीयस्या विरमतेति
  
  
  
  
  
  
  
   
  
  
  
  [Commentary]
  
  
  
   
  
  
  
  सघर्मामां सदृशीं, सुधर्मामां देवसभायां अध्यासाञ्चक्रिरे, तस्थुरित्यर्थः। 'अघिशीङ्स्थासां
  
  
  
   कर्म' (पा.सू. 1-4-46१.४.४६) इति कर्मत्वम् । अधिपूर्वात् 'आस उपवेशने[^१]' इति धातोः
  
  
  
   'दयायासश्च' (पा.सू. ३.१.३७31-37 ) इत्याम् । 'कृञ्चानुप्रयुज्यते ....' ( 3-1-40३.१.४०) इति
  
  
  
   कृषाधातोरनुप्रयोगः, ततो लिडिति प्रक्रिया बोध्या । पुरप्रवेशानन्तरं पुरे दानवैरनु -
  
  
  
  ष्ठितं वृत्तं वर्णयितुमारभते ॥ आसीना इति ॥ अमरसभाया:याः सुधर्माया:याः, अन्तरे
  
  
  
   क्षणं आसीनाः वर्तमानाः । परस्परमितरेतरं, 2 [^२]अभिष्वज्यमानाः आश्लिष्य-
  
  
  
  माणाः । वन्दिभिः स्तुतिपाठकै:कैः, मागधैः घाण्टिकैः । अनयोरीष द्विशेषः, अतो न
  
  
  
   पौनरुक्त्यम् । 'वन्दिनः स्तुतिपाठका:काः' 'चाक्रिका घाण्टिकास्समा:माः,' 'स्युर्मागधा:'
  
  
  
  धाः' इति सर्वत्रामरः । प्रशस्यमानाः स्तूयमाना, कुलवृद्धैरभिनन्द्यमानाः श्वालाघ्यमानाः ।
  
  
  
   भार्गवेणानुगृह्यमाणाः अनुग्रहभाजनीकृताः । ततः सुधर्मातः, बहिः निष्क्रम्य
  
  
  
   निर्गत्य, अचिरं तत्कालं, परिगृहीता स्वीकृता, या विजयेन्दिरा, तस्याः परि-
  
  
  
  रम्भेण आलिङ्गनेन, सम्भृतानि सम्पादितानि कुचकुम्भयो स्सम्बन्धीनि, यानि
  
  
  
   कुङ्कुमानि अङ्गरागविशेषाः, तेषां क्षोदैश्वचूर्णैरिव स्थितैः । 'अथ कुङ्कुमम् । काश्मीर-
  
  
  
  जन्माभिग्निभवं' 'चूर्णणे क्षोदस्समुत्पिञ्जपिञ्जलौ' इति च अमरः । सेनानां रजोभिः
  
  
  
   पांसुभिरभिरञ्जिताः व्याप्ताः । असुरा इति शेषः । सर्वतः परितः, निरङ्कुश
  
  
  
  शं लक्षणया निर्भयं यथा तथेत्यर्थः । चक्रम्यमाणा: 3ङ्क्रम्यमाणाः[^३] अतिशयेन चरन्तः, विशशृङ्खलाः
  
  
  
   निर्निरोधा:धाः ये दैत्यानां सङ्घाः, तेषां बाहा:हाः भुजा:जाः । 'बाहाबाहुभुजास्स्मृता'
  
  
  
   इत्यमरसुधायां दामोदरः । तद्वलै:बलैः शौर्यैरुन्मुक्तः कृतः, हाहारवो यस्मिंस्तत् ।
  
  
  
   नगरं आलक्ष्य दृष्ट्वा । उल्लोला महान्तः, ये जलधेः कल्लोला:लाः तरङ्गाः ।
  
  
  
  1. ' 
  
  
  
   
  
  
  
  [^१] 'आस-उपवेशने '' -- अयं धातुरादादिकः पृच्यन्तेष्वनुदात्तेत्सु चतुर्थः
  
  
  
   
  
  
  
   आत्मनेपदी ॥
  
  
  
   
  
  
  
  8
  
  
  
   
  
  
  
  2.
  
  
  
   
  
  
  
  [^२] 'परिष्वज्यमानाः' इति मूलपाठः । 'अभिष्वज्यमानाः इति व्याख्यापाठः ।
  
  
  
  3.
  
  
  
   
  
  
  
  [^३] चकङ्क्रम्यमाणाः –-- इति क्रमधातोः क्रियासमभिहारे यकि, ज्ञाङि, शानचि रूपम् ।
  
  
  
   अत एषातिशयेन चरन्तः इत्यर्थलाभः ।