This page has not been fully proofread.

नीलकण्ठ विजये सव्याख्याने
 
आसीनाः क्षणममरसभान्तरे, परिष्वज्यमानाः परस्परं, प्रशस्यमाना
वन्दिमागधैः, अभिनन्द्यमानाः कुलवृद्धैः, अनुगृह्यमाणा भार्गवेण,
निष्क्रम्य ततो बहिरचिरपरिगृहीतविजयेन्दिरापरिरम्भसम्भृतकुचकुम्भ-
कुङ्कुमक्षोदेखि सेनारजोभिरभिरञ्जिताः, निरङ्कुशचक्रम्यमाण-
विश्शृङ्खलदैत्यसङ्घबाहाबलोन्मुक्तहाहारवमालक्ष्य सर्वतो नगरम्, उल्लोल-
जलधिकल्लोलहल्लोहल शमनशीलया वेलयेव तनीयस्या विरमतेति
सघर्मा सदृशीं, सुधर्मा देवसभायां अध्यासाञ्चक्रिरे, तस्थुरित्यर्थः। 'अघिशीस्थासां
कर्म' (पा.सू. 1-4-46) इति कर्मत्वम् । अधिपूर्वात् 'आस उपवेशने' इति धातोः
'दयायासश्च' (पा.सू. 31-37 ) इत्याम् । 'कृञ्चानुप्रयुज्यते ....' ( 3-1-40) इति
कृषातोरनुप्रयोगः, ततो लिडिति प्रक्रिया बोध्या । पुरप्रवेशानन्तरं पुरे दानवैरनु -
ष्ठितं वृत्तं वर्णयितुमारभते ॥ आसीना इति ॥ अमरसभाया: सुधर्माया:, अन्तरे
क्षणं आसीनाः वर्तमानाः । परस्परमितरेतरं, 2 अभिष्वज्यमानाः आश्लिष्य-
माणाः । वन्दिभिः स्तुतिपाठकै:, मागधैः घाण्टिकैः । अनयोरीष द्विशेषः, अतो न
पौनरुक्त्यम् । 'वन्दिनः स्तुतिपाठका:' 'चाक्रिका घाण्टिकास्समा:,' 'स्युर्मागधा:'
इति सर्वत्रामरः । प्रशस्यमानाः स्तूयमाना, कुलवृद्धैरभिनन्द्यमानाः श्वाघ्यमानाः ।
भार्गवेणानुगृह्यमाणाः अनुग्रहभाजनीकृताः । ततः सुधर्मातः, बहिः निष्क्रम्य
निर्गत्य, अचिरं तत्कालं, परिगृहीता स्वीकृता, या विजयेन्दिरा, तस्याः परि-
रम्भेण आलिङ्गनेन, सम्भृतानि सम्पादितानि कुचकुम्भयो सम्बन्धीनि, यानि
कुङ्कुमानि अङ्गरागविशेषाः, तेषां क्षोदैश्वर्णैरिव स्थितैः । 'अथ कुङ्कुमम्। काश्मीर-
जन्माभिभवं' 'चूर्ण क्षोदस्समुत्पिञ्जपिञ्जलौ' इति च अमरः । सेनानां रजोभिः
पांसुभिरभिरञ्जिताः व्याप्ताः । असुरा इति शेषः । सर्वतः परितः, निरङ्कुश
लक्षणया निर्भयं यथा तथेत्यर्थः । चक्रम्यमाणा: 3 अतिशयेन चरन्तः, विशङ्खलाः
निर्निरोधा: ये दैत्यानां सङ्घाः, तेषां बाहा: भुजा: । 'बाहाबाहुभुजास्स्मृता'
इत्यमरसुधायां दामोदरः । तद्वलै: शौर्यैरुन्मुक्तः कृतः, हाहारवो यस्मिंस्तत् ।
नगरं आलक्ष्य दृष्ट्वा । उल्लोला महान्तः, ये जलधेः कल्लोला: तरङ्गाः ।
1. ' आस-उपवेशने '- अयं धातुरादादिकः पृच्यन्तेष्वनुदात्तेत्सु चतुर्थः
 
आत्मनेपदी ॥
 
8
 
2. 'परिष्वज्यमानाः' इति मूलपाठः । 'अभिष्वज्यमानाः इति व्याख्यापाठः ।
3. चकम्यमाणाः – इति क्रमधातोः क्रियासमभिहारे यकि, ज्ञानचि रूपम् ।
अत एषातिशयेन चरन्तः इत्यर्थलाभः ।