This page has been fully proofread once and needs a second look.

अनुपददह्यमानदेवतागारधूमधूपितम्, अपकृष्यमाणकुलपालिकाजनाहन्यमानमुखवाद्यनादमेदुरं, अपहृतसर्वस्वदीनजनाक्रोशजयाशीर्वचोमुखरं, आकस्मिकपतदशनिनिर्घोषनिर्वर्तितलोहयन्त्रनिनादमङ्गळं, अभितःपतदुल्कासहस्रदीपमालापरिष्कृतं, अनुप्रविश्य नगरम् अभिवन्द्य पुरोधसं भार्गवम्, अपक्रान्तहर्यक्षमेरुगुहासधर्मां सुधर्मामध्यासाञ्चक्रिरे ।
 
[commentary]
 
देवालयास्तेषां धूमेन धूपितं सञ्जाततापम् । तापपर्यायाद्धूपशब्दात् 'तदस्य सञ्जातम् --' (पा. सू. 5.2.3) इत्यनेनेतच्प्रत्ययः । अपकृष्यमाणाः आकृष्यमाणाः, ये कुलपालिकाजनाः । 'कुलस्त्री कुलपालिका' इत्यमरः । ताभिराहन्यमानानि ताड्यमानानि, यानि मुखान्येव वाद्यानि वाद्यस्थानापन्नानि, तेषां निनदेन शब्देन, मेदुरं व्याप्तम् । 'सान्द्रः स्निग्धस्तु मेदुरः' इत्यमरः । अपहृतानि विनाशितानि सर्वाणि स्वानि द्रव्याणि यैस्तथाविधाश्च ते, दीनजनाश्चेति कर्मधारयः । तेषां आक्रोशैः रोदनैः सहितानि यानि जयाशिषां वचांसि । मुषितैकदेशप्रत्यर्पणायेति[^१] भावः । तैर्मुखरम् । यद्वा अपहृतसर्वस्वानां विनष्टद्रव्याणां दीनानां स्वाभाविकदरिद्राणां च यथासङ्ख्यं आक्रोशैः रोदनैः जयाशिषां वचोभिश्च मुखरं सशब्दमित्यर्थः । आकस्मिकं अज्ञातहेतुकं यथा तथा । पतन्तः ये अशनयः शम्भवः । 'शतकोटिस्स्वरुश्शम्भुर्दम्भोळिरशनिर्द्वयोः' इत्यमरः । तेषां निर्घोषेण ध्वनिना, निर्वर्तितः अनुष्ठितः, लोहयन्त्राणां शतघ्नीनां निनादेन शब्देन । राज्ञां पुरप्रवेशनिर्गमकालयोर्निर्वर्तनीयेनेति[^२] भावः । तेन मङ्गळम् । अभितः पतन्ति, उल्कानां निर्गतज्वलानाम् । 'उल्कास्यान्निर्गतज्वाला' इत्यमरः । सहस्राण्येव ये दीपाः, तेषां मालाभिः राजिभिः, परिष्कृतमलङ्कृतं । नगरममरपुरं अनुप्रविश्य । पुरोधसं पुरोहितं भार्गवं शुक्राचार्यम् । 'उशना भार्गवः कविः' इत्यमरः । 'पुरोधास्तु पुरोहितः' इति च । अभिवन्द्य नमस्कृत्य। अपक्रान्ताः अपगताः, हर्यक्षाः सिंहाः यस्यास्सा । 'हर्यक्षः केसरी हरिः' इत्यमरः । तथाभूता या मेरोस्सुवर्णाद्रेः, गुहा कन्दरः, तया
 
[^१] आक्रोशे जयवचनं विरुद्धमिति शेषपूरणं करोति ।
 
[^२] शतघ्नीशब्दस्य प्रसरं दर्शयति शेषपूरणेन । महतां क्वचिदागमनकाले तेषां गौरवाय, जनानामाघोषणाय च विशिष्य राज्ञां शतघ्नीनिनादसंप्रदायः ॥