2023-07-20 10:36:38 by Bharadwajraki
This page has been fully proofread once and needs a second look.
प्रथमाश्वासः
८९
अनुपददह्यमानदेवतागारधूमधूपितम्, अपकृष्यमाणकुलपालिकाजनाह-
न्यमानमुखवाद्यनादमेदुरं, अपहृतसर्वस्त्रवदीनजनाक्रोशजयाशीर्वचोमुखरं,
"
आकस्मिकपतदशनिनिर्घोषनिर्वर्तितलोहयन्त्रनिनादमङ्गळं, अभितःपत-
दुल्कासहस्र दीपमाला परिष्कृतं, अनुप्रविश्य नगरम् अभिवन्द्य पुरोधसं
भार्गवम्, अपक्रान्तहर्यक्षमेरु गुहासधर्मामां सुधर्मामध्यासाञ्चक्रिरे ।
[commentary]
देवालयास्तेषां धूमेन धूपितं सञ्जाततापम् । तापपर्यायाद्धूपशब्दात्
'तदस्य सञ्जातम् –--' (पा. सू. 5-.2-.36) इत्यनेनेतचच्प्रत्ययः । अप-
कृष्यमाणाः आकृष्यमाणाः, ये कुलपालिकाजना:नाः । 'कुलस्त्री कुलपालिका'
इत्यमरः । ताभिराहन्यमानानि ताड्यमानानि, यानि मुखान्येव वाद्यानि वाद्य-
स्थानापन्नानि, तेषां निनदेन शब्देन, मेदुरं व्याप्तम् । 'सान्द्रः स्निग्धस्तु मेदुर: '
रः' इत्यमरः । अपहृतानि विनाशितानि सर्वाणि स्वानि द्रव्याणि यैस्तथाविघाधाश्च
ते, दीनजनाश्चेति कर्मधारयः । तेषां आक्रोशैः रोदनैः सहितानि यानि जयाशिषां
वचांसि । मुषितैकदेशप्रत्यर्पणायेति[^१] भावः । तैर्मुखरम् । यद्वा अपहृतसर्व-
स्वानां विनष्टद्रव्याणां दीनानां स्वाभाविकदरिद्राणां च यथासङ्ख्यं आक्रोशैः
रोदनैः जयाशिषां वचोभिश्च मुखरं सशब्दमित्यर्थः । आकस्मिकं अज्ञातहेतुकं
यथा तथा । पतन्तः ये अशनयः शम्भवः । 'शतकोटिस्स्वरुश्शम्भुर्दम्भोळिर-
शनिर्द्वयोः' इत्यमरः । तेषां निर्घोषेण ध्वनिना, निर्वर्तितः अनुष्ठितः, लोह-
यन्त्राणां शतघ्नीनां निनादेन शब्देन । राज्ञां पुरप्रवेशनिर्गमकालयो र्निर्वर्तनीयेनेति
[^२] भावः । तेन मङ्गळम् । अभितः पतन्ति, उल्कानां निर्गतज्वलानाम् । 'उल्का
स्यान्निर्गतज्वाला' इत्यमरः । सहस्राण्येव ये दीपाः, तेषां मालाभिः राजिभिः,
परिष्कृतमलङ्कृतं । नगरममरपुरं अनुप्रविश्य । पुरोधसं पुरोहिततं भार्गवं शुक्रा-
चार्यम् । 'उशना भार्गवः कविः' इत्यमरः । 'पुरोधास्तु पुरोहितः' इति च ।
अभिवन्द्य नमस्कृत्य। अपक्रान्ता:ताः अपगताः, हर्यक्षाः सिंहाः यस्यास्सा । 'हर्यक्षः
केसरी हरिः' इत्यमरः । तथाभूता या मेरोस्सुवर्णाद्रेरेः, गुहा कन्दर, तया
1.रः, तया
[^१] आक्रोशे जयवचनं विरुद्धमिति शेषपूरणं करोति ।
2.
[^२] शतघ्नीशब्दस्य प्रसरं दर्शयति शेषपूरणेन । महतां क्वचिदागमनकाले
तेषां गौरवाय, जनानामाघोषणाय च विशिष्य राज्ञां शतघ्नी निनादसंप्रदायः ॥
N. V - 12