2023-08-15 10:17:40 by Bharadwajraki
This page has been fully proofread twice.
अङ्गुलिच्छेदमक्षरलेखिनाम्, आस्यविदारणममात्यानां, भञ्जयन्तः प्रतिमा देवतानाम्, अपमार्जयन्तः सुरपराक्रममालेख्यसमर्पितम्, अशरणहन्यमानरक्तधारावसिक्तम्, अग्रचरणग्राहमाकृष्यमाणमुनिजनशरीरसम्मृष्टं,
[Ccommentary]
त्याजयन्तश्चेत्यर्थः । अट्टहासैस्सकरताळहासैः । 'हासे सकरताळे स्यादट्टहासः पुमानथ' इति भास्करः । कर्मदेवान्विद्रावयन्तः प्रधावयन्तस्सन्तः । गोपुरद्वारं उन्माथयन्तः विनिपातयन्तः । प्राकारं उल्लङ्घयन्तः तरन्तः । शरणं रक्षक इत्यागतान् । 'शरणं गृहरक्षित्रोः' इत्यमरः । अपश्यन्तः । सुरर्षीणां याच्ञाक्षराणि । 'याच्ञा भिक्षार्थनार्दना' इत्यमरः । प्रार्थनरूपाणि वचांसीति फलितोऽर्थः । अशृण्वन्तस्सन्तः । अमराणां, वैताळिका बोधकराः, तेषाम् । 'वैतालिका बोधकरा' इत्यमरः । जिह्वाया रसनायाः, छेदं आज्ञापयन्तस्सन्तः, चाराणां, चरणानां अवकृन्तनं छेदनम् अवपूर्वात् 'कृती छेदेने’[^१] इति धातोर्ल्युट्प्रत्ययः । मौहूर्तिकानां कार्तान्तिकानां । चपेटाभ्यां विस्तृताङ्गुळिपाणिभ्यामाघातं ताडनं, कपोलेष्विति भावः । 'पाणौ चपेटप्रतलप्रहस्ता विस्तृताङ्गुळौ' इत्यमरः । अक्षरलेखिनां लिपिकराणाम्, अङ्गुळीनां छेदनं । अमात्यानां मन्त्रिणां । 'मन्त्री धीसचिवोऽमात्य' इत्यमरः । आस्यस्य मुखस्य, विदारणं विदळनम् । 'वक्त्रास्ये वदनं तुण्डम्' इत्यमरः । आज्ञापयन्तस्सन्त इति पूर्वेणान्वयः । प्रतिमारूपाणि दैवतानि शिवविष्ण्वादिप्रतिकृतीरित्यर्थः । भञ्जयन्तः स्फोटयन्तः, आलेख्ये चित्रफलके, समर्पितं विन्यस्तं, चित्ररूपतयेति भावः । सुराणां पराक्रमं शौर्यम् । 'शौर्योद्योगौ पराक्रमौ' इत्यमरः । [^२]अवमार्जयन्तः विनाशयन्तः सन्तः । अशरणं रक्षकरहितं अत एव हन्यमानं यत्प्राणिजालं,
तस्य रक्तधाराभिस्सिक्तम् । अग्रचरणयोर्गृहीत्वा अग्रचरणग्राहम् आकृष्यमाणानि यानि मुनिजनानां शरीराणि तैस्सम्मृष्टं शोधितम् । अनुपदं पदेपदे । वीप्सायामव्ययीभावः । [^३]दन्दह्यमानानि अतिशयेन भस्मीक्रियमाणानि, यानि, देवतागाराणि
[^१] अयं 'कृती छेदने' -- इति धातुः तौदादिकः, परस्मैपदी मुचादौ षष्ठः ॥ 'कृती वेष्टने' -- इत्यन्यः रौधादिकः कृणत्ति ॥
[^२] अपमार्जयन्तः -- मूलपाठः, 'अवमार्जयन्तः' -- व्याख्यापाठः ।
[^३] 'धातोरेकाचो हलादेः क्रियासमभिहारे यङ्' -- (पा. सू. ३.१.२२) इति
सूत्रेण पौनःपुन्यभृशार्थयोः यङि द्वित्वे निष्पन्नमिदं रूपम् । दह्यमानेति मूलपाठः ।
[