This page has not been fully proofread.

नीलकण्ठ विजये सव्याख्याने
 
अङ्गुलिच्छेदमक्षरलेखिनाम्, आस्यविदारणममात्यानां, भञ्जयन्तः प्रति -
मा देवतानाम्, अपमार्जयन्तः सुरपराक्रममालेख्यसमर्पितम्,
मानरक्तधारावसिक्तम्, अग्रचरणग्राहमाकृष्यमाणमुनिजनशरीरसम्मृष्टं,
 
अशरणहन्य-
2
 
त्याजयन्तश्चेत्यर्थः । अट्टहासैस्सकरताळहासैः । 'हासे सकरताळे स्यादट्टहास:
पुमानथ' इति भास्करः । कर्मदेवान्विद्रावयन्तः प्रघावयन्तस्सन्तः । गोपुरद्वारं
उन्माथयन्तः विनिपातयन्तः । प्राकारं उल्लङ्घयन्तः तरन्तः । शरणं रक्षक
इत्यागतान् । 'शरणं गृहरक्षित्रो:' इत्यमरः । अपश्यन्तः । सुरर्षीणां
याच्ञाक्षराणि । 'याच्या भिक्षार्थनार्दना' इत्यमरः । प्रार्थनरूपाणि वचांसीति
फलितोऽर्थः । अशृण्वन्तस्सन्तः । अमराणां, वैताळिका बोधकराः, तेषाम् ।
'वैतालिका बोधकरा' इत्यमरः । जिह्वाया रसनायाः, छेदं आज्ञापयन्तस्सन्तः,
चाराणां, चरणानां अवकृन्तनं छेदनम् अवपूर्वात् 'कृती छेदेने" इति
धातोर्ब्युट्प्रत्ययः । मौहूर्तिकानां कार्तान्तिकानां । चपेट भ्यां विस्तृताङ्गळि-
पाणिभ्यामाघातं ताडनं, कपोलेष्विति भावः । 'पाणौ चपेटप्रतलप्रहस्ता विस्तृ-
ताङ्गळौ' इत्यमरः । अक्षरलेखिनां लिपिकराणाम्, अङ्गळीनां छेदनं । अमात्यानां
मन्त्रिणां । 'मन्त्री धीसचिवोऽमात्य इत्यमरः । आस्यस्य मुखस्य, विदारणं
विदळनम् । 'वक्त्रास्ये वदनं तुण्डम्' इत्यमरः । आज्ञापयन्तस्सन्त इति
पूर्वेणान्वयः । प्रतिमारूपाणि दैवतानि शिवविष्ण्वादिप्रतिकृतीरित्यर्थः । भञ्जयन्तः
स्फोटयन्त:, आलेख्ये चित्रफलके, समर्पित विन्यस्तं, चित्ररूपतयेति भावः ।
सुराणां पराक्रमं शौर्यम् । 'शौर्योद्योगौ पराक्रमौ' इत्यमरः । अवमार्जयन्तः
विनाशयन्तः सन्तः । अशरणं रक्षकरहितं अत एव हन्यमानं यत्प्राणिजालं,
तस्य रक्तधाराभिस्सिक्तम् । अग्रचरणयोगृहीत्वा अग्रचरणग्राहम् आकृष्यमाणानि
यानि मुनिजनानां शरीराणि तैस्सम्मृष्टं शोधितम् । अनुपदं पदेपदे । वीप्साया-
मव्ययीभावः । 'दन्दह्यमानानि अतिशयेन भस्मीक्रियमाणानि, यानि, देवतागाराणि
 
19
 
1. अयं 'कृती छेदने' - इति धातुः तौदादिकः, परस्मैपदी मुचादौ षष्ठः ॥
' कृती वेष्टने '—इत्यन्यः रौधादिकः कृणत्ति ॥
 
2.
 
अपमार्जयन्तः - मूलपाठः, 'अवमार्जयन्तः - व्याख्यापाठः ।
 
3. ' धातोरेकाचो हलादेः क्रियासमभिहारे यड् ' - (पा. सू. 3-1-22) इति
सूत्रेण पौनः पुन्यभृशार्थयोः यहि द्वित्वे निष्पन्न मिदं रूपम् । दयनाने ति मूलपाठः ।