2023-08-15 10:12:54 by Bharadwajraki
This page has been fully proofread twice.
नैर्ऋतीयान् जात्यभिमानेन, विद्रावयन्तः कर्मदेवानट्टहासैः, उन्माथयन्तो गोपुरद्वारम्, उल्लङ्घयन्तः प्राकारम्, अपश्यन्तः शरणागतान्, अशृण्वन्तो याच्ञाक्षराणि सुरर्षीणाम्, आज्ञापयन्तो जिह्वाच्छेदममरवैताळिकानां चरणावकर्तनं चाराणां चपेटाघातममरमौहूर्तिकानां,
[commentary]
'अभिप्रायवशौ छन्दौ' इत्यमरः । समयस्य शपथस्य, बन्धेन बन्धनेन । 'समयाश्शपथाचारकालसिद्धान्तसंविदः' इत्यमरः । पताकिनीं सेनां, पर्यवस्थाप्य परितः स्थापयित्वा । अत्युन्नतान्मतङ्गन्जानारुह्य । नगरस्य, उपशल्यानि सीमावधिदेशान् । 'ग्रामान्तमुपशल्यं स्यात्' इत्यमरः । आलोकयन्तस्सन्तः, प्राकारमार्गाभ्यां सालवीथीभ्यां सहिता च सा सामग्री चेति शाकपार्थिवादित्वात्समासः । प्राकारमार्गं तदुपयोगिनीं युद्धोपयोगिनीं सामग्रीं चेत्यर्थः । प्रशंसन्तः
श्लाघमानाः प्रतिद्वन्द्विनां विरोधिनां । 'प्रतिरोधिप्रतिद्वन्द्विविरोधिपरिपन्थिनः' इत्यमरशेषः । बुद्धेर्लाघवं चाञ्चल्यं, परिहसन्तस्सन्तः । विपक्षजातीयेषु शत्रुतुल्येषु कर्मदेवेष्वित्यर्थः । निर्दयाः कृपारहिता इत्यर्थः । दुर्गाः दुःखेन गन्तुं शक्याः । 'ईषद्दुस्सुषु....' (पा. सू. ३.३.१२६) इत्यादिना गमेः खल्प्रत्ययः । ये गुल्माः सेनाः स्तम्बा वा । 'गुल्मा रुक्स्तम्बसेनाश्च' इत्यमरः । निर्विशङ्काः निर्भयास्सन्तः । वधूमिव दृष्ट्वा वधूदर्शम् । 'उपमाने कर्मणि च' (पा. सू. ३.४.४५) इति णमुल्प्रत्ययः । ग्राहयन्तः स्वीकारयन्तः । पुरुषमिव दृष्ट्वा [^१]पुरुषदर्शं, घातयन्तः प्रहारयन्तः । एवं कर्णयोरमृतानि तत्तुल्यानीत्यर्थः । नाकसदां स्वर्गिणाम्, आक्रन्दनानि परिदेवनानि, आकर्णयन्तः । अविद्यमानं शरणं संरक्षको येषां तान्, महामुनीन् नारदादीन् दर्शंदर्शं दृष्ट्वा दृष्ट्वा । [^२]आभीक्ष्ण्ये णमुल्प्रत्ययः । हसन्तस्सन्तः पूर्ववच्छेषः । निर्ऋतेः रक्षस इमे नैर्ऋतीयास्तान्, जातौ रक्षस्त्वजातौ, अभिमानेन प्रेम्णा, विसर्जयन्तः त्यजन्तः
[^१] चात्कर्तरि-घृधृतनिधायं निहितं जलम्, अजकनाशं नष्टः इत्युदाहरणदानात् 'कषादिषु यथाविध्यनुप्रयोगः' (पा. सू. ३.४.४६) इति अनुप्रयोगनियमाच्च 'दृष्ट्वा' -- इति अध्याहर्तव्यमिति भाति ॥ 'स एवानुप्रयोक्तव्यः' -- इति व्याख्यापर्यालोचनया अन्यस्यानुप्रयोगवारणेऽपि, न नियमः अनुप्रयोगस्येति वा समाधातव्यम् ॥
[^२] 'आभीक्ष्ण्ये णमुल् च' (पा. सू. ३.४.२२) इति सूत्रेण 'स्मारं स्मारं स्मृत्वा स्मृत्वा नमति शिवम्' -- इत्यत्रेव चकारात् क्त्वाणमुलौ विधीयेते ॥
[commentary]
'अभिप्रायवशौ छन्दौ' इत्यमरः । समयस्य शपथस्य, बन्धेन बन्धनेन । 'समयाश्शपथाचारकालसिद्धान्तसंविदः' इत्यमरः । पताकिनीं सेनां, पर्यवस्थाप्य परितः स्थापयित्वा । अत्युन्नतान्मतङ्गन्जानारुह्य । नगरस्य, उपशल्यानि सीमावधिदेशान् । 'ग्रामान्तमुपशल्यं स्यात्' इत्यमरः । आलोकयन्तस्सन्तः, प्राकारमार्गाभ्यां सालवीथीभ्यां सहिता च सा सामग्री चेति शाकपार्थिवादित्वात्समासः । प्राकारमार्गं तदुपयोगिनीं युद्धोपयोगिनीं सामग्रीं चेत्यर्थः । प्रशंसन्तः
श्लाघमानाः प्रतिद्वन्द्विनां विरोधिनां । 'प्रतिरोधिप्रतिद्वन्द्विविरोधिपरिपन्थिनः' इत्यमरशेषः । बुद्धेर्लाघवं चाञ्चल्यं, परिहसन्तस्सन्तः । विपक्षजातीयेषु शत्रुतुल्येषु कर्मदेवेष्वित्यर्थः । निर्दयाः कृपारहिता इत्यर्थः । दुर्गाः दुःखेन गन्तुं शक्याः । 'ईषद्दुस्सुषु....' (पा. सू. ३.३.१२६) इत्यादिना गमेः खल्प्रत्ययः । ये गुल्माः सेनाः स्तम्बा वा । 'गुल्मा रुक्स्तम्बसेनाश्च' इत्यमरः । निर्विशङ्काः निर्भयास्सन्तः । वधूमिव दृष्ट्वा वधूदर्शम् । 'उपमाने कर्मणि च' (पा. सू. ३.४.४५) इति णमुल्प्रत्ययः । ग्राहयन्तः स्वीकारयन्तः । पुरुषमिव दृष्ट्वा [^१]पुरुषदर्शं, घातयन्तः प्रहारयन्तः । एवं कर्णयोरमृतानि तत्तुल्यानीत्यर्थः । नाकसदां स्वर्गिणाम्, आक्रन्दनानि परिदेवनानि, आकर्णयन्तः । अविद्यमानं शरणं संरक्षको येषां तान्, महामुनीन् नारदादीन् दर्शंदर्शं दृष्ट्वा दृष्ट्वा । [^२]आभीक्ष्ण्ये णमुल्प्रत्ययः । हसन्तस्सन्तः पूर्ववच्छेषः । निर्ऋतेः रक्षस इमे नैर्ऋतीयास्तान्, जातौ रक्षस्त्वजातौ, अभिमानेन प्रेम्णा, विसर्जयन्तः त्यजन्तः
[^१] चात्कर्तरि-