This page has been fully proofread once and needs a second look.

प्रथमाश्वासः
 
"
 
नैर्ऋतीयान् जात्यभिमानेन, विद्रावयन्तः कर्मदेवानट्टहासःसैः, उन्माथ-
यन्तो गोपुरद्वारम्, उल्लङ्घयन्तः प्राकारम्, अपश्यन्तः शरणागतान्,
भृशृण्वन्तो याच्याञाक्षराणि सुरर्षीणाम्, आज्ञापयन्तो जिह्वाच्छेदममर-
वैताळिकानां चरणावकर्तनं चाराणां चपेटाघातममरमौहूर्तिकानां,
 
८७
 

 
[commentary]
 
'अभिप्रायवशौ छन्दौ' इत्यमरः । समयस्य शपथस्य, बन्धेन बन्धनेन ।
'समयाश्शपथाचारकालसिद्धान्तसंविदः' इत्यमरः । पताकिनीं सेनां, पर्यवस्थाप्य
परितः स्थापयित्वा । अत्युन्नतान्मतङ्गन्जानारुह्य । नगरस्य, उपशल्यानि
सीमावधिदेशान् । 'प्ग्रामान्तमुपशल्यं स्यात्' इत्यमरः । आलोकयन्तस्सन्तः,
प्राकारमार्गाभ्यां सालवीथीभ्यां सहिता च सा सामग्री चेति शाकपार्थिवादित्वात्
समासः । प्राकारमार्गं तदुपयोगिनीं युद्धोपयोगिनीं सामग्रीं चेत्यर्थः । प्रशंसन्तः

श्लाघमाना:नाः प्रतिद्वन्द्विनां विरोधिनां । 'प्रतिरोधिप्रतिद्वन्द्विविरोधिपरिपन्थिनः'
इत्यमरशेषः । बुद्धेर्लाघवं चाञ्चल्यं, परिहसन्तस्सन्तः । विपक्षजातीयेषु शत्रुतुल्येषु
कर्मदेवेष्वित्यर्थः । निर्दया:याः कृपारहिता इत्यर्थः । दुर्गाः दुःखेन गन्तुं शक्या: ।
याः । 'ईषद्दुस्सुषु....' (पा. सू. 3-3-126३.३.१२६) इत्यादिना गमेः खल्प्रत्ययः । ये गुल्माः
सेनाः स्तम्बा वा । 'गुल्मा रुक्स्तम्ब सेनाश्च' इत्यमरः । निर्विशङ्का:काः निर्भया -
स्सन्तः । वधूमिव दृष्ट्वा वधूदर्शम् । 'उपमाने कर्मणि च' (पा. सू. 3-4-45 ३.४.४५)
इति णमुल्प्रत्ययः । ग्राहयन्तः स्वीकारयन्तः । पुरुषमिव दृष्टा ट्वा [^१]पुरुषदर्श,
शं, घातयन्तः प्रहारयन्तः । एवं कर्णयोरमृतानि तत्तुल्यानीत्यर्थः । नाकसदां
स्वर्गिणाम्, आक्रन्दनानि परिदेवनानि,
आकर्णयन्तः । अविद्यमानं
 
"
 
शरणं संरक्षको येषां तान्, महामुनीन् नारदादीन् दर्शंदर्शं दृष्ट्वा दृष्टा ।
2
ट्वा । [^२]आभीक्ष्ण्ये णमुल्प्रत्ययः । हसन्तस्सन्तः पूर्ववच्छेष:षः । निर्ऋते:तेः रक्षस इमे
नैर्ऋतीयास्तान्, जातौ रक्षस्त्वजातौ, अभिमानेन प्रेम्णा, विसर्जयन्तः त्यजन्तः
 
1.
 

 
[^१]
चात्कर्तरि -घृतनिधायं निहितं जलम्, अजकनाशं नष्टः इत्युदाहरणदानात्
'कषादिषु यथाविध्यनुप्रयोग: गः' (पा. सू. 3-4-46३.४.४६) इति अनुप्रयोगनियमाच्च
'दृष्ट्वा ' –' -- इति अध्याहर्तव्यमिति भाति ॥ 'स एवानुप्रयोक्तव्य: यः' -- इति व्याख्या-
पर्यालोचनया अन्यस्यानुप्रयोगवारणेऽपि, न नियमः अनुप्रयोगस्येति वा समाधातव्यम् ॥
 
"
 
'
 
2.

 
[^२]
'आभीक्ष्ण्ये णमुल् च' (पा. सू. 3-4-22३.४.२२) इति सूत्रेण 'स्मारं स्मारं
स्मृत्वा स्मृत्वा नमति शिवम् ' –' -- इत्यत्रेव चकारात् क्त्वाणमुलौ विधीयेते ॥