This page has not been fully proofread.

प्रथमाश्वासः
 
"
 
नैऋतीयान् जात्यभिमानेन, विद्रावयन्तः कर्मदेवानट्टहासः, उन्माथ-
यन्तो गोपुरद्वारम्, उल्लङ्घयन्तः प्राकारम् अपश्यन्तः शरणागतान्,
अभृण्वन्तो याच्याक्षराणि सुरर्षीणाम्, आज्ञापयन्तो जिह्वाच्छेदममर-
वैताळिकानां चरणावकर्तनं चाराणां चपेटाघातममरमौहूर्तिकानां,
 
८७
 
'अभिप्रायवशौ छन्दौ' इत्यमरः । समयस्य शपथस्य, बन्धेन बन्धनेन ।
'समयाश्शपथाचारकालसिद्धान्तसंविदः' इत्यमरः । पताकिनीं सेनां, पर्यवस्थाप्य
परितः स्थापयित्वा । अत्युन्नतान्मतङ्गन्जानारुह्य । नगरस्य, उपशल्यानि
सीमावधिदेशान् । 'प्रामान्तमुपशल्यं स्यात्' इत्यमरः । आलोकयन्तस्सन्तः,
प्राकारमार्गाभ्यां सालवीथीभ्यां सहिता च सा सामग्री चेति शाकपार्थिवादित्वात्
समासः । प्राकारमार्ग तदुपयोगिनीं युद्धोपयोगिनीं सामग्रीं चेत्यर्थः। प्रशंसन्तः
श्लाघमाना: प्रतिद्वन्द्विनां विरोधिनां । 'प्रतिरोधिप्रतिद्वन्द्विविरोधिपरिपन्थिनः'
इत्यमरशेषः। बुद्धेर्लाघवं चाञ्चल्यं, परिहसन्तस्सन्तः । विपक्षजातीयेषु शत्रुतुल्येषु
कर्मदेवेष्वित्यर्थः । निर्दया: कृपारहिता इत्यर्थः । दुर्गाः दुःखेन गन्तुं शक्या: ।
'ईषद्दुस्सुषु....' (पा. सू. 3-3-126) इत्यादिना गमेः खल्प्रत्ययः । ये गुल्माः
सेनाः स्तम्बा वा । 'गुल्मा रुस्तम्ब सेनाश्च' इत्यमरः । निर्विशङ्का: निर्भया -
स्सन्तः । वधूमिव दृष्ट्वा वधूदर्शम् । 'उपमाने कर्मणि च' (पा. सू. 3-4-45 )
इति णमुल्प्रत्ययः । ग्राहयन्तः स्वीकारयन्तः । पुरुषमिव दृष्टा पुरुषदर्श,
घातयन्तः प्रहारयन्तः । एवं कर्णयोरमृतानि तत्तुल्यानीत्यर्थः । नाकसदां
स्वर्गिणाम् आक्रन्दनानि परिदेवनानि,
आकर्णयन्तः । अविद्यमानं
 
"
 
शरणं संरक्षको येषां तान्, महामुनीन् नारदादीन् दर्शदर्श दृष्ट्वा दृष्टा ।
2 आभीक्ष्ण्ये णमुरप्रत्ययः । हसन्तस्सन्तः पूर्ववच्छेष: । निर्ऋते: रक्षस इमे
नैऋतीयास्तान्, जातौ रक्षस्त्वजातौ, अभिमानेन प्रेम्णा, विसर्जयन्तः त्यजन्तः
 
1.
 
चात्कर्तरि घृतनिधायं निहितं जलम् अजकनाशं नष्टः इत्युदाहरणदानात्
'कषादिषु यथाविध्यनुप्रयोग: ' (पा. सू. 3-4-46) इति अनुप्रयोगनियमाच्च
'दृष्ट्वा ' – इति अध्याहर्तव्यमिति भाति ॥ 'स एवानुप्रयोक्तव्य: ' - इति व्याख्या-
पर्यालोचनया अन्यस्यानुप्रयोगवारणेऽपि न नियमः अनुप्रयोगस्येति वा समाधातव्यम् ॥
 
"
 
'
 
2. 'आभीक्ष्ण्ये णमुल् च' (पा. सू. 3-4-22) इति सूत्रेण 'स्मारं स्मारं
स्मृत्वा स्मृत्वा नमति शिवम् ' – इत्यत्रेव चकारात् क्त्वाणमुलौ विधीयेते ॥