This page has been fully proofread twice.

समसमयप्रवृत्तयोस्तु साधारणं वस्तु, परतस्तु यथारुचि परस्परच्छन्देनेति समयबन्धेन पर्यवस्थाप्य पताकिनीम्, आरुह्य मतङ्गजानत्युन्नतान्, आलोकयन्तो नगरोपशल्यानि, प्रशंसन्तः प्राकारदुर्गसामग्रीं, परिहसन्तो बुद्धिलाघवं प्रतिद्वन्द्विनां, निर्दया विपक्षजातीयेषु, निर्विशङ्का दुर्गगुल्मेषु, ग्राहयन्तो वधूदर्शं, घातयन्तः पुरुषदर्शम्, आकर्णयन्तः कर्णामृतान्याक्रन्दितानि नाकसदां, हसन्तो दर्शंदर्शमशरणान्वध्यमानान्, (कुप्यन्तोa दयालुषु, कुतूहलिनो दारुणेषु) विसर्जयन्तो
 
[Commentary]
 
स्येदं वैश्रवणीयं । 'वृद्धाच्छः' (पा. सू. ४.२.११४) । [^१]एतस्य सन्निहितस्य, वैश्वानरीयमग्निसम्बन्धि पदं । प्रवेष्टुः प्रवेशं कुर्वतः । प्रविष्टं प्रवेशकर्म । अपहर्तुरपहारं कुर्वतः । अपहृत्य लब्धं अपहृतं वस्त्वित्यर्थः । प्रहर्तुः पुंसः, प्रहृत्य लब्धं प्रताडनं कृत्वा सम्पादितमित्यर्थः । आलोकितुः द्रष्टुरित्यर्थः । आलोकितं दृष्टं, वस्तु, उपायस्य इतिकर्तव्यतायाः प्राप्तिनिमित्तस्य वा, वक्ता उपायवक्ता । [^२]वचेस्तृच्प्रत्ययः । तस्य । 'उपायः कर्म चेष्टा च' इत्यमरः । अर्थंधं समांशः । 'पुंस्यर्धोऽर्धं समेंऽशके' इत्यमरः । उत्तरस्य उक्तार्थस्य साधकः तस्य । 'उक्तार्थस्तूत्तरो मत' इति विश्वः । तदर्धं अवशिष्टसमांश इत्यर्थः । समसमये एककाले प्रवृत्तयोः प्रविष्टयोस्तु, वस्तु साधारणं समानमित्यर्थः । 'साधारणं तु सामान्यम्' इत्यमरः । परतस्तु अन्यत्र तु । 'इतराभ्योऽपि दृश्यन्ते' (पा. सू. ५.३.१४) इति
सप्तम्यास्तसिः । रुचिमभिरतिमनतिक्रम्य यथारूचि । 'अव्ययं विभक्ति....' (पा.सू. २.१.६) इत्यादिना समासः । परस्परेषामन्योन्येषां, छन्देन अभिप्रायेण ।
 
a) एतद्भागद्वयस्य व्याख्या त्रुटिता ।
 
[^१] "इदमस्तु सन्निकृष्टम् समीपतरवर्तिं चैतदो रूपम् । अदसस्तु विप्रकृष्टम्, तदिति परोक्षे विजानीयात्" इति सर्वनाम्नामर्थभेदो ज्ञेयः ॥
 
[^२] अयमादादिकः 'वच-परिभाषणे' -- इति । 'ब्रुवो वचिः' (पा. सू. २.४.५६) इत्यारम्भसामर्थ्यात् अस्यार्धधातुके प्रयोगाभावः, इतरथा वक्ता (लुट्) इत्यादीनि रूपाणि स्वतन्त्रस्यास्य धातोरेव भविष्यन्ति इति किमनेन पृथगादेशविधायकसूत्रेण । एवं 'अस्तेर्भूः' (पा. सू. २.४.५२) इत्यारम्भसामर्थ्यात् 'भू-सत्तायाम्' -- इति धातोर्नार्धधातुके प्रयोगः इति केचित् । अपरे तु 'स्वतन्त्रधातुरयमन्तिपरो न प्रयुज्यते, बहुवचनपर इत्यन्ये, झिपर इतीतरे ॥' चुरादिपठितः आधृषीयः 'वच-परिभाषणे' इति धातुः णिजभावे सर्वत्र प्रयुज्यत एव ।