2023-06-05 16:39:52 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठविजये सध्याख्याने
समसमयप्रवृत्तयोस्तु साधारणं वस्तु, परतस्तु यथारुचि परस्परच्छन्दे-
नेति समयबन्धेन पर्यवस्थाप्य पताकिनीम्, आरुह्य मतङ्गजानत्युन्नतान्,
आलोकयन्तो नगरोपशल्यानि, प्रशंसन्तः प्राकारदुर्गसामग्रीं, परिहसन्तो
बुद्धिलाघवं प्रतिद्वन्द्विनां, निर्दया विपक्षजातीयेषु, निर्विशङ्का
दुर्गगुल्मेषु, ग्राहयन्तो वधूदर्श, घातयन्तः पुरुषदर्शम्, आकर्णयन्तः
कर्णामृतान्याऋन्दितानि नाकसदां, हसन्तो दर्शदर्शमशरणान्वध्य-
मानान्, (कुप्यन्तो दयालुषु, कुतूहलिनो दारुणेषु ) विसर्जयन्तो
स्येदं वैश्रवणीयं । 'वृद्धाच्छ:' (पा. सू. 4-2-114) । एतस्य सन्निहितस्य,
वैश्वानरीयमग्निसम्बन्धि पदं। प्रवेष्टुः प्रवेशं कुर्वतः । प्रविष्टं प्रवेशकर्म । अपहर्तुर -
पहारं कुर्वतः । अपहृत्य लब्धं अपहृतं वस्त्वित्यर्थः । प्रहर्तुः पुंसः, प्रहृत्य लब्धं
प्रताडनं कृत्वा सम्पादितमित्यर्थः । आलोकितुः द्रष्टुरित्यर्थः । आलोकितं दृष्टं,
वस्तु, उपायस्य इतिकर्तव्यतायाः प्राप्तिनिमित्तस्य वा, वक्ता उपायवक्ता । 'वचेस्तृ-
च्प्रत्ययः। तस्य। 'उपायः कर्म चेष्टा च' इत्यमरः । अर्थं समांशः। 'पुंस्यर्धोऽर्धं
समेंऽशके' इत्यमरः । उत्तरस्य उक्तार्थस्य साधकः तस्य । 'उक्तार्थस्तूतरो मत'
इति विश्वः । तदर्घ अवशिष्टसमांश इत्यर्थः । समसमये एककाले प्रवृत्तयोः
प्रविष्टयोस्तु, वस्तु साधारण समानमित्यर्थः । 'साधारणं तु सामान्यम्' इत्यमरः ।
परतस्तु अन्यत्र तु । 'इतराभ्योऽपि दृश्यन्ते' (पा. सू. 5-3-14) इति
सप्तम्यास्तसिः । रुचिमभिरतिमनतिक्रम्य यथारूचि । 'अव्ययं विभक्ति....'
(पा.सू. 2-1-6) इत्यादिना समासः । परस्परेषामन्योन्येषां, छन्देन अभिप्रायेण ।
a) एतद्भागद्वयस्य व्याख्या त्रुटिता ।
1. "इदमस्तु सन्निकृष्टम् समीपतरवर्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टम्,
तदिति परोक्षे विजानीयात्" इति सर्वनाम्नामर्थभेदो ज्ञेयः ॥
"
2. अयमादादिक: 'वच - परिभाषणे' - इति । 'ब्रुवो वचि: ' (पा. सू. 2-4-56)
इत्यारम्भसामर्थ्यात् अस्यार्धधातुके प्रयोगाभावः, इतरथा वक्ता ( लुटू) इत्यादीनि रूपाणि
स्वतन्त्रस्यास्य धातोरेव भविष्यन्ति इति किमनेन पृथगादेश विधायकसूत्रेण । एवं
' अस्तेर्भू: ' (पा. सू. 2-4-52) इत्यारम्भसामर्थ्यात् 'भू-सत्तायाम् ' - इति धातो-
नर्धिधातुके प्रयोगः इति केचित् । अपरे तु 'स्वतन्त्रधातुरयमन्तिपरो न प्रयुज्यते,
बहुवचनपर इत्यन्ये, झिपर इतीतरे ॥' चुरादिपठितः आधुषीय: 'वच - परिभाषणे' इति
भातुः णिजभावे सर्वत्र प्रयुज्यत एव ।