2023-07-20 09:22:54 by Bharadwajraki
This page has been fully proofread once and needs a second look.
अपहरेम सुरकामिनीः, अवस्कन्देम कोशमन्दिरम्, अधितिष्ठेम सुधर्मां, आक्रामेम त्रैलोक्यमिति कृतनिश्चयाः; कल्पद्रमा बलेः, कामधेनुर्बाणस्य, हास्तिकं नमुचेः, अश्वीयं शम्बरस्य, चिन्तामणिर्जम्भस्य, विलासिन्यो विरोचनस्य, वारुणं पदमस्य, वायवीयं तस्य, वैश्रवणीयममुष्य,
वैश्वानरीयमेतस्य, प्रविष्टं प्रवेष्टुः, अपहृत्य लब्धमपहर्तुः, प्रहृत्य लब्धं प्रहर्तुः, आलोकितुरालोकितम्, उपायवक्तुरर्धम्, उत्तरसाधकस्य तदर्धं,
[commentary]
मृत इति अमरावतीं प्रविष्ट इति । तदात्वभवाः तादात्विकाः तात्कालिका इत्यर्थः । 'तत्कालस्तु तदात्वं स्यात्' इत्यमरः । तैः प्रवादभेदैः वृत्तान्तभेदैः । तत्त्वं याथार्थ्यम् अनवबुध्यमाना अजानन्तोऽपि । भवतु अस्तु नाम । तावदादौ, अमरावतीं प्रविशेम प्रवेशं कुर्याम । ततश्शचीपतेः प्रवृत्तिं वृत्तान्तं, परिशोधयेम अन्वेषणं कुर्याम, सुरकामिनीः अपहरेम अपहारं कुर्याम । कोशानां अर्थौघानां, मन्दिरं, धनसदनमिति यावत् । 'कोशोऽस्त्री कुड्मले खड्गपिघानेऽर्थौघदिव्ययोः' इत्यमरः । अवस्कन्देम स्त्रीकुर्याम । सुधर्मां देवसभायाम् । 'अधिशीङ्स्थासां कर्म' (पा. सू. १.४.४६) इत्यधिपूर्वस्य तिष्ठतेराधारस्य कर्मत्वं, 'कर्मणि द्वितीया' (पा. सू. २.३.२) इति द्वितीया । [^१]अधितिष्ठेम वर्तेमहि ।
'स्यात्सुधर्मा देवसभा' इत्यमरः । त्रिलोका एव त्रैलोक्यम् । स्वार्थे ष्यञ्प्रत्ययः । आक्रामेम अधीनं कुर्याम । इत्येवं कृतः निश्चयः यैस्तथाविधास्सन्तः । बलेः कल्पवृक्षाः, स्वीया भवन्त्विति शेषः । बाणस्य कामधेनुः, स्वीयास्तु । नमुचेः नमुचिनाम्नोऽसुरस्य, हस्तिनां समूहो हास्तिकं । 'अचित्तहस्तिधेनोष्ठक्' (पा.सू. ४.२.४७) इति समूहार्थे ठक्प्रत्ययः । 'हास्तिकं गजता बृन्दे' इत्यमरः ।
शम्बरस्य, अश्वानां समूहः अश्वीयम् । ' केशाश्वाभ्यां यञ्छावन्यतरस्याम्' (पा. सू. ४.२.४८4) इति समूहार्थे अश्वशब्दाच्छप्रत्ययः । 'बृन्दे त्वश्वीयमाश्ववत्' इत्यमरः । चिन्तामणिर्जम्भस्य । विरोचनस्य विलासिन्यः । अस्य पार्श्वस्थस्येत्यर्थः । वरुणस्येदं वारुणम् । 'तस्येदम्' (४.३.२०) इत्यण् । पदं स्थानम् । 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु’ इत्यमरः । तस्य असन्निहितबुद्धिस्थस्येत्यर्थः ।
वायोरिदं वायवीयं वायुसम्बन्धीत्यर्थः । अमुष्य पुरःस्थितस्य, वैश्रवणस्य कुबेर -
[^१] 'अथाजन्ताः परस्मैपदिनः' इत्यारभ्य पठितेषु पञ्चचत्वारिंशतिधातुष्वयं
सप्तविंशः । 'ष्ठा-गतिनिवृत्तौ इति ॥