2023-06-05 16:39:52 by ambuda-bot
This page has not been fully proofread.
प्रथमाश्वांसः
अपहरेम सुरकामिनीः, अवस्कन्देम कोशमन्दिरम्, अधितिष्ठेम सुधर्मा,
आक्रामेम त्रैलोक्यमिति कृतनिश्चयाः; कल्पद्रमा बलेः, कामधेनुर्बाणस्य,
हास्तिकं नमुचेः, अश्वीयं शम्बरस्य, चिन्तामणिर्जम्भस्य, विलासिन्यो
विरोचनस्य, वारुणं पदमस्य, वायवीयं तस्य, वैश्रवणीयममुष्य,
वैश्वानरीयमेतस्य, प्रविष्टं प्रवेष्टः, अपहृत्य लब्धमपहर्तुः, प्रहृत्य लब्धं
प्रहर्तुः, आलोकितुरालोकितम्, उपायवक्तुरर्धम्, उत्तरसाधकस्य तदर्थ,
"
।
मृत इति अमरावतीं प्रविष्ट इति । तदात्वभवाः तादात्विकाः तात्कालिका
इत्यर्थ: । 'तत्कालस्तु तदात्वं स्यात्' इत्यमरः । तैः प्रवाद भेदैः वृत्तान्त भेदैः । तत्त्वं
याथार्थ्यम् अनवबुध्यमाना अजानन्तोऽपि । भवतु अस्तु नाम । तावदादौ, अम-
रावतीं प्रविशेम प्रवेशं कुर्याम । ततश्शचीपतेः प्रवृत्ति वृत्तान्तं, परिशोषयेम
अन्वेषणं कुर्याम, सुरकामिनी: अपहरेम अपहारं कुर्याम । कोशानां अर्थों-
घानां, मन्दिरं, धनसदनमिति यावत् । 'कोशोऽस्त्री कुड्मले खड्गपिघानेऽर्थै -
घदिव्ययोः' इत्यमरः । अवस्कन्देम स्त्रीकुर्याम । सुधर्मा देवसभायाम् ।
'अधिशीस्थासां कर्म' (पा. सू. 1-4-46) इत्यधिपूर्वस्य तिष्ठतेराधारस्य कर्मत्वं,
'कर्मणि द्वितीया' (पा. सू. 2-3-2 ) इति द्वितीया । 'अधितिष्ठेम वर्तेमहि ।
'स्मात्सुधर्मा देवसभा' इत्यमरः । त्रिलोका एव त्रैलोक्यम् । स्वार्थे व्यञ्प्रत्ययः ।
आक्रामेम अधीनं कुर्याम । इत्येवं कृतः निश्चयः यैस्तथाविधास्सन्तः । बलेः
कल्पवृक्षाः, स्वीया भवन्त्विति शेषः । बाणस्य कामधेनुः, स्वीयास्तु । नमुचे:
नमुचिनाम्नोऽसुरस्य, हस्तिनां समूहो हास्तिकं । 'अचित्तहस्तिधेनोष्ठक्' (पा.सू.
42-47 ) इति समूहार्थे ठक्प्रत्ययः । 'हास्तिकं गजता बृन्दे' इत्यमरः ।
शम्बरस्य, अश्वानां समूहः अश्वीयम् । ' केशाश्वाभ्यां यञ्छावन्यतरस्याम् '
(पा. सू. 4-2-48) इति समूहार्थे अश्वशब्दाच्छप्रत्ययः । 'बृन्दे त्वश्वीयमाश्ववत् '
इत्यमरः । चिन्तामणिर्जम्भस्य । विरोचनस्य विलासिन्यः । अस्य पार्श्वस्थस्ये-
त्यर्थः । वरुणस्येदं वारुणम् । 'तस्येदम्' ( 4-3-20) इत्यण् । पदं स्थानम् । 'पदं
ब्यवसितत्राणस्थानलक्ष्माङ्घिस्तुषु इत्यमरः । तस्य असन्निहितबुद्धिस्थस्येत्यर्थः ।
बायोरिदं वायवीयं वायुसम्बन्धीत्यर्थः । अमुष्य पुरःस्थितस्य, वैश्रवणस्य कुबेर -
।
1. 'अथाजन्ताः परस्मैप दिनः' इत्यारभ्य पठितेषु पञ्चचत्वारिंशतिधातुष्वयं
सप्तविंशः । 'ष्ठा - गति निवृत्तौ इति ॥