2023-08-15 09:20:35 by Bharadwajraki
This page has been fully proofread twice.
धावद्देवप्रवरसमरोदन्तयाथार्थ्यबोध-
भ्राम्यत्पौरं नगरमभवज्जर्जरं निर्जराणाम् ॥ ४८ ॥
ततो मुहूर्तादेव मूर्ता इव कोपानलविस्फुलिङ्गा मुनेर्बलिमुखा मखद्विषः पराक्रमेण महता परिक्रामन्तस्तिरोहिते मरुत्वति द्रागेव रणमूर्धनि, पलायित इति प्रमीत इति प्रविष्टोऽमरावतीमिति च तादात्विकैः प्रवादभेदैः तत्त्वमनवबुध्यमाना अपि भवतु नाम सर्वथैव वयं प्रविशेम तावदमरावतीं, परिशोधयेम ततः प्रवृत्तिं शचीपतेः,
[Ccommentary]
निश्चये नाशे स्वरूपेऽग्रेऽन्तिके करे' इति भास्करः । धावन्तः पलायमानाः, देवानां प्रवराः श्रेष्ठा यस्मात्तथाविधम् । यत्समरं युद्धं, तस्योदन्तः वृत्तान्तः । 'वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः' इत्यमरः । तस्य यद्याथार्थ्यं प्रामाण्यं, तस्य बोधः वेदनं, तस्मै भ्राम्यन्तः विघूर्णमानाः पौरा यस्मिन् तत्तथाभूतमभवत् । [^१]अथवा एवमन्वयः । शस्त्राशस्त्रीत्यादिविशेषणत्रयोपेतं निर्जराणां पुरं जर्जरमभवदिति । यद्वा शस्त्राशस्त्रीत्यादिपदत्रयसहितजर्जरपदं द्वितीयान्तं मत्वा क्रियाविशेषणतया योज्यम् । ममताकारिणि नाथे पुर्याः पलायिते पौराणां वा कथं यथापूर्वमवस्थितिस्स्यादिति भावः । सुधर्माप्रवेशकालिकमसुरवृत्तान्तं वक्तुमुपक्रमते ॥ तत इति ॥ मुहूर्तादेव मुहूर्तं विहायैव । ल्यब्लोपे पञ्चमी । मूर्ताः, मूर्तिश्शरीरमेषामस्तीत्यर्थे 'अर्शआदिभ्योऽच्' (पा. सू. ५.२.१२७) इत्यच्प्रत्ययः । मूर्तिमन्तः मुनेर्दुर्वाससः कोपानलस्य स्फुलिङ्गा इव कणा इव स्थिताः । 'त्रिषु स्फुलिङ्गोऽग्निकण' इत्यमरः । बलिः मुखं प्रमुखो येषां ते बलिमुखाः । मखद्विषः असुराः । महता पराक्रमेण शौर्येण । परिक्रामन्तः गच्छन्तस्सन्तः, रणमूर्धनि रणरङ्गे, मरुत्वति देवेन्द्रे, द्रागेव सपद्येव । 'द्राङ् मङ्क्षु सपदि द्रुतम्' इत्यमरः । तिरोहिते अन्तर्हिते सति । पलायित इति, प्रधावित इति, प्रभीतः
[^१] प्रथमव्याख्याने 'जर्जरम्' -- इति साधारणविशेषणम्, अन्यत् त्रयं विधेयविशेषणम् -- शुक्लः पटो नीलो जातः इतिवत् । द्वितीयव्याख्याने विशेषणत्रयं हेतुगर्भविशेषणम्, जर्जरमिति विधेयविशेषणम् । अत एव गलितरामणीयकमिति । तृतीयव्याख्याने विशेषणचतुष्टयमपि न नगरस्य विशेष्यस्य, अपितु 'नगरं एवमभवत्' -- इति भवति क्रियाविशेषणम् । क्रियाविशेषणानां द्वितीयैकवचनान्तत्वव्यवस्थापनात्सर्वं द्वितीयैकवचनान्तम्, न प्रथमद्वितीययोरिव प्रथमैकवचनान्तम् इति विवेकः ॥

[