2023-07-20 09:10:03 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  ८४
  
  
  
   
  
  
  
  नीलकण्ठ विजये सव्याख्याने
  
  
  
   
  
  
  
  धावद्देवप्रवरसमरोदन्तयाथार्थ्यबोध-
  
  
  
  
  
  
  
  भ्राम्यत्पौरं नगरमभवज्जर्जरं निर्जराणाम् ॥ ४८ ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  ततो मुहूर्तादेव मूर्ता इव कोपानलविस्फुलिङ्गा मुनेर्बलिमुखा
  
  
  
   मखद्विषः पराक्रमेण महता परिक्रामन्तस्तिरोहिते मरुत्वति द्रागेव
  
  
  
   रणमूर्धनि, पलायित इति प्रमीत इति प्रविष्टोऽमरावतीमिति च तादा-
  
  
  
  त्विकै:त्विकैः प्रवादभेदैः तत्त्वमनवबुध्यमाना अपि भवतु नाम सर्वथैव
  
  
  
   वयं प्रविशेम तावदमरावतीं, परिशोधयेम ततः प्रवृत्तिं शचीपतेः,
  
  
  
   
  
  
  
  19
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [Commentary]
  
  
  
   
  
  
  
  निश्चये नाशे स्वरूपेऽयेग्रेऽन्तिके करे' इति भास्करः । धावन्तः पलायमानाः,
  
  
  
   देवानां प्रवराः श्रेष्ठा यस्मात्तथाविधम् । यत्समरं युद्धं, तस्योदन्तः वृत्तान्तः ।
  
  
  
   ' वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः' इत्यमरः । तस्य यद्याथार्थ्ययं प्रामाण्यं, तस्य बोधः
  
  
  
   वेदनं, तस्मै भ्राम्यन्तः विघूर्णमानाः पौरा यस्मिन् तत्तथाभूतमभवत् । [^१]अथवा
  
  
  
   एवमन्वयः । शस्त्राशस्त्रीत्यादि विशेषणत्रयोपेतं निर्जराणां पुरं जर्जरमभवदिति ।
  
  
  
   यद्वा शस्त्राशस्त्रीत्यादिपदलत्रयसहितजर्जरपदं द्वितीयान्तं मत्वा क्रियाविशेष-
  
  
  
  णतया योज्यम् । ममताकारिणि नाथे पुर्या:याः पलायिते पौराणां वा कथं यथा-
  
  
  
  पूर्वमवस्थितिस्स्यादिति भावः । सुधर्माप्रवेशकालिकमसुरवृत्तान्तं वक्तुमुपक्रमते ॥
  
  
  
   तत इति ॥ मुहूर्तादेव मुहूर्ततं विहायैव । ल्यब्लोपे पञ्चमी । मूर्ता:ताः, मूर्तिश्श-
  
  
  
  रीरमेषामस्तीत्यर्थे 'अर्शआदिभ्योऽच्' (पा. सू. 5-2-127५.२.१२७) इत्यच्प्रत्ययः । मूर्तिमन्तः
  
  
  
   मुनेर्दुर्वाससः कोपानलस्य स्फुलिङ्गा इव कणा इव स्थिताः । 'त्रिषु स्फुलिङ्गो-
  
  
  
  sमिऽग्निकण' इत्यमरः । बलि:लिः मुखं प्रमुखो येषां ते बलिमुखाः । मखद्विषः
  
  
  
   असुराः । महता पराक्रमेण शौर्येण । परिक्रामन्तः गच्छन्तस्सन्तः, रणमूर्धनि
  
  
  
   रणरङ्गे, मरुत्वति देवेन्द्रंरे, द्रागेव सपद्येव । 'द्राङ् मडूङ्क्षु सपदि द्रुतम्'
  
  
  
   इत्यमरः । तिरोहिते अन्तर्हिते सति । पलायित इति, प्रधावित इति, प्रमीत:
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  1.भीतः
  
  
  
   
  
  
  
  [^१] प्रथमव्याख्याने 'जर्जरम्' •-- इति साधारणविशेषणम्, अन्यत् त्रमं
  
  
  
  यं विधेयविशेषणम् –-- शुक्ल:लः पटो नीलो जातः इतिवत् । द्वितीयव्याख्याने विशेषणत्रयं
  
  
  
   हेतुगर्भविशेषणम्, जर्जरमिति विधेय विशेषणम् । अत एषव गलितरामणीयकमिति । तृतीय-
  
  
  
  व्याख्याने विशेषणचतुध्ष्टयमपि न नगरस्य विशेष्यस्य, अपितु 'नगरं एवमभवत्' -
  
  
  
  - इति भबत्वति क्रियाविशेषणम् । क्रियाविशेषणानां द्वितीयैकवचनान्तत्वव्यवस्थापनात्सत्वव्यवस्थापनात्
  
  
  
  सर्वर्वं द्वितीयैकवचनान्तम्, न प्रथम द्वितीययोरिव प्रथमैकवचनान्तम् इति विवेकः ॥