This page has not been fully proofread.

८४
 
नीलकण्ठ विजये सव्याख्याने
 
धावदेवप्रवरसमरोदन्तयाथार्थ्यबोध-
भ्राम्यत्पौरं नगरमभवज्जर्जरं निर्जराणाम् ॥ ४८ ॥
 
ततो मुहूर्तादेव मूर्ता इव कोपानलविस्फुलिङ्गा मुनेर्बलिमुखा
मखद्विषः पराक्रमेण महता परिक्रामन्तस्तिरोहिते मरुत्वति द्रागेव
रणमूर्धनि, पलायित इति प्रमीत इति प्रविष्टोऽमरावतीमिति च तादा-
त्विकै: प्रवादभेदैः तत्त्वमनवबुध्यमाना अपि भवतु नाम सर्वथैव
वयं प्रविशेम तावदमरावतीं, परिशोधयेम ततः प्रवृत्तिं शचीपतेः,
 
19
 
निश्चये नाशे स्वरूपेऽयेऽन्तिके करे' इति भास्करः । धावन्तः पलायमानाः,
देवानां प्रवराः श्रेष्ठा यस्मात्तथाविधम् । यत्समरं युद्धं, तस्योदन्तः वृत्तान्तः ।
' वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः' इत्यमरः । तस्य यद्याथार्थ्य प्रामाण्यं तस्य बोधः
वेदनं, तस्मै भ्राम्यन्तः विघूर्णमानाः पौरा यस्मिन् तत्तथाभूतमभवत् । अथवा
एवमन्वयः । शस्त्राशस्त्रीत्यादि विशेषणत्रयोपेतं निर्जराणां पुरं जर्जरमभवदिति ।
यद्वा शस्त्राशस्त्रीत्यादिपदलयसहितजर्जरपदं द्वितीयान्तं मत्वा क्रियाविशेष-
णतया योज्यम् । ममताकारिणि नाथे पुर्या: पलायिते पौराणां वा कथं यथा-
पूर्वमवस्थितिस्स्यादिति भावः । सुधर्माप्रवेशकालिकमसुरवृत्तान्तं वक्तुमुपक्रमते ॥
तत इति ॥ मुहूर्तादेव मुहूर्त विहायैव । ल्यब्लोपे पञ्चमी । मूर्ता:, मूर्तिश्श-
रीरमेषामस्तीत्यर्थे 'अर्शआदिभ्योऽच्' (पा. सू. 5-2-127) इत्यच्प्रत्ययः । मूर्तिमन्तः
मुनेर्दुर्वाससः कोपानलस्य स्फुलिङ्गा इव कणा इव स्थिताः । 'त्रिषु स्फुलिङ्गो-
sमिकण' इत्यमरः । बलि: मुखं प्रमुखो येषां ते बलिमुखाः । मखद्विषः
असुराः । महता पराक्रमेण शौर्येण । परिक्रामन्तः गच्छन्तस्सन्तः, रणमूर्धनि
रणरङ्गे, मरुत्वति देवेन्द्रं, द्रागेव सपद्येव । 'द्राङ् मडूक्षु सपदि द्रुतम्'
इत्यमरः । तिरोहिते अन्तर्हिते सति । पलायित इति, प्रधावित इति, प्रमीत:
 
-
 
1. प्रथमव्याख्याने 'जर्जरम्' • इति साधारणविशेषणम्, अन्यत् त्रमं
विधेयविशेषणम् – शुक्ल: पटो नीलो जातः इतिवत् । द्वितीयव्याख्याने विशेषणत्रयं
हेतुगर्भविशेषणम्, जर्जरमिति विधेय विशेषणम् । अत एष गलितरामणीयकमिति । तृतीय-
व्याख्याने विशेषणचतुध्यमपि न नगरस्य विशेष्यस्य, अपितु 'नगरं एवमभवत्' -
इति भबत्ति क्रियाविशेषणम् । क्रियाविशेषणानां द्वितीयैकवचनान्सत्वव्यवस्थापनात्
सर्व द्वितीयैकवचनान्तम्, न प्रथम द्वितीययोरिव प्रथमैकवचनान्तम् इति विवेकः ॥