This page has been fully proofread twice.

घ्नन्तः सन्तर्जयन्तः पथि पथि विबुधान् मुक्तकेशान् दिगीशान्
अभ्येत्यामन्त्रयन्तः प्रजहसुरसुराः सर्वतो निर्विशङ्कम् ॥ ४७ ॥
 
किञ्च ।
 
शस्त्राशस्त्रिक्षतपतिसुतालोकशोकावलुप्त-
प्राणस्त्रैणव्रजमशरणध्वस्तलुप्तापणान्तम् ।
 
[commentary]
 
अपहरन्तः । अभिनिपत्य आगत्य, प्रसभं बलात्कारं, आयुधान्याहरन्तः सङ्गृह्णन्तः, पथि पथि प्रतिमार्गं । वीप्सायां द्विरुक्तिः । मुक्ताः विमुक्ताः केशा लक्षणया तद्ग्रन्थयो यैस्तान्विबुधान् । लब्धानिति शेषः । घ्नन्तः प्रहरन्तः, सन्तर्जयन्तः धिक्कुर्वन्तः, असुरा दैत्याः, निर्विशङ्कं निर्भयं यथा तथा । दिगीशान् दिक्पतीनभ्येत्य गत्वा । युद्धायेति शेषः । आमन्त्रयन्तः आह्वानं कुर्वन्तस्सन्तः । प्रजहसुः हासञ्चक्रुः । प्रभ्रष्टसर्वस्वमसमीचीन जनं के वाऽहङ्कारिणो न हसन्तीति भावः । अवस्कन्दनसमये अमरपुरम् अतीव सातङ्कं बभूवेत्याह ॥ किंचेति ॥ निर्जराणां सुराणां, जर्जरं गळितरामणीयकं, नगरं पुरं शस्त्राशस्त्रीत्यादि प्रथमान्तत्रयं विधेयविशेषणमिति बोध्यम् । शस्त्रैश्च शस्त्रैश्च प्रहृत्येदं युद्धं प्रवृत्तं शस्त्राशस्त्रि[^१], तेन क्षतानां हतानां पतीनां सुतानां चालोकाद्दर्शनात् । 'आलोको दर्शनोद्द्योतौ' इत्यमरः । यश्शोकस्सन्तापः, तेनावलुप्ताः नष्टाः प्राणा यस्य स तथाभूतः । यः, स्त्रीणामयं स्त्रैणः स्त्रीसम्बन्धी । 'स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्' (पा. सू. ४.१.८७) इति नञ्प्रत्ययः । व्रजस्समूहो यस्मिन् तत् । 'समूहनिवहव्यूह....' इत्यमरः । न विद्यन्ते, शरणानि रक्षकाः गृहा वा यस्य यस्मिन्वा । 'शरणं गृहरक्षित्रोः' इत्यमरः । अत एव ध्वस्तः, स्रस्तः, अत एव लुप्तः, आपणानां पण्यवीथीनां अन्तः स्वरूपं, यस्मिन् तत् । 'अन्तोऽस्त्री
 
[^१] 'तत्र तेनेदमिति सरूपे' (पा. सू. २.२.२७) इति सूत्रेण दण्डादण्डि, मुष्टीमुष्टि इत्यादिवत् बहुव्रीहिसमासः इति भावः । वस्तुतस्तु 'तृतीयासप्तम्यन्तेषु च क्रियाभिधानात्' इति वार्तिके, "'क्रिया अभिधीयते' इति भाष्ये च सामान्यतः क्रियायाः अभिधानमुक्तम् । उपलभ्यते च 'कर्णाकर्णिप्रथितमयशः' 'हस्ताहस्तिमिषात्स्पृशन् कुचतठीटीम्' इत्यादौ प्रथनस्पर्शनक्रियाभिधानेऽपि सूत्रेणानेन बहुव्रीहिः । तथापि 'युद्धक्रियायामेव भवति' इति प्रदीपे एवकारदर्शनात् कैयटानुसारेण युद्धमात्रेऽयं बहुव्रीहिः इति दीक्षितादयः ॥