2023-07-20 08:58:47 by Bharadwajraki
This page has been fully proofread once and needs a second look.
प्रथमाश्वासः
घ्नन्तः सन्तर्जयन्तः पथि पथि विबुधान् मुक्तकेशान् दिगीशान्
अभ्येत्यामन्त्रयन्तः प्रजहसुरसुराः सर्वतो निर्विशङ्कम् ॥ ४७ ॥
किञ्च ।
शस्त्राशस्त्रिक्षतपतिसुतालोकशोकावलुप्त-
प्राणस्त्रैणव्रजमशरणध्वस्तलुप्तापणान्तम् ।
८३
[commentary]
अपहरन्तः । अभिनिपत्य आगत्य, प्रसभं बलात्कारं, आयुधान्याहरन्तः
सङ्गृह्णन्तः, पथि पथि प्रतिमार्गगं । वीप्सायां द्विरुक्तिः । मुक्ताः विमुक्ताः केशा
लक्षणया तद्ग्रन्थयो यैस्तान्विबुधान् । लब्धानिति शेष: । नन्तः प्रहरन्तः,
षः । घ्नन्तः प्रहरन्तः, सन्तर्जयन्तः धिक्कुर्वन्तः, असुरा दैत्याः, निर्विशङ्कं निर्भयं यथा तथा ।
दिगीशान् दिक्पतीनभ्येत्य गत्वा । युद्धायेति शेषः । आमन्त्रयन्तः आह्वानं
कुर्वन्तस्सन्तः । प्रजहसुः हासञ्चक्रुः । प्रभ्रष्टसर्वस्वमसमीचीन जनं के वाह-
ऽहङ्कारिणो न हसन्तीति भावः । अवस्कन्दनसमये अमरपुरम् अतीव सातङ्कं बभूवे-
त्याह ॥ किंचेति ॥ निर्जराणां सुराणां, जर्जरं गळितरामणीयकं, नगरं पुरं
शस्त्राशस्त्रीत्यादि प्रथमान्तत्रयं विधेयविशेषणमिति बोध्यम् । शस्त्रैश्च शस्त्रैश्च
प्रहृत्येदं युद्धं प्रवृत्तं शस्त्राशस्त्रि'[^१], तेन क्षतानां हतानां पतीनां सुतानां चालोकाद्द-
र्शनात् । 'आलोको दर्शनोद्द्योतौ' इत्यमरः । यश्शोकस्सन्तापः, तेनावलुप्ताः
नष्टाः प्राणा यस्य स तथाभूतः । यः, स्त्रीणामयं स्त्रैणः स्त्रीसम्बन्धी । 'स्त्री-
पुंसाभ्यां नञ्त्रस्नञौ भवनात् ' (पा. सू. 4-1-87४.१.८७) इति नञ्प्रत्ययः । ब्व्रजस्समूहो
यस्मिन् तत् । 'समूह निवह व्यूह....' इत्यमरः । न विद्यन्ते, शरणानि रक्षकाः गृहा
वा यस्य यस्मिन्वा । 'शरणं गृहरक्षित्रो:रोः' इत्यमरः । अत एव ध्वस्तः, स्रस्तः,
अत एव लुसःप्तः, आपणानां पण्यवीथीनां अन्तः स्वरूपं, यस्मिन् तत् । 'अन्तोऽस्त्री
1.
[^१] 'तत्र तेनेदमिति सरूपे' (पा. सू. 2-2-27 २.२.२७) इति सूत्रेण दण्डादण्डि,
मुष्टीमुष्टि इत्यादिवत् बहुव्रीहिसमासः इति भावः । वस्तुतस्तु 'तृतीयासप्तम्यन्तेषु
च क्रियाभिधानात्' इति वार्तिके, "क्रिया अभिधीयते' इति भाष्ये च सामान्यतः
क्रियायाः अभिधानमुक्तम् । उपलभ्यते च 'कर्णाकर्णित्र प्रथितमयश: शः' 'हस्ताहस्तिमिषात्
स्पृशन् कुचतठीम्' इत्यादौ प्रथनस्पर्शनक्रियाभिधानेऽपि सूत्रेणानेन बहुव्रीहिः । तथापि
'युद्धक्रियायामेव भवति' इति प्रदीपे एवकारदर्शनात् कैयटानुसारेण युद्धमात्रेऽयं बहुव्रीहिः
इति दीक्षितादयः ॥