2023-08-14 09:15:45 by Bharadwajraki
This page has been fully proofread twice.
विजहि जहीहि पाहि निगृहाण गृहाण हरे-
त्युपचितनादमेदुरमवर्तत दैत्यबलम् ॥ ४६ ॥
अपि च ।
आवृत्यावर्तयन्तो दिशि दिशि तुरगान् वारणान् वारयन्तो
मुष्णन्तो भूषणानि प्रसभमभिनिपत्यायुधान्याहरन्तः ।
[commentary]
मूर्च्छिताः, निःश्वसिताः[^१] जीवनादृष्टवशादाश्वसिताः । क्षताः ताडिताः । एतत्समासे प्रथमं तान्तानां सर्वेषां परस्परं स्नातानुलिप्तवत्समासः[^२] । पश्चाद्विबुधशब्देन कर्मधारयः[^३] । एवञ्च इत्थम्भूतान् देवाननुसृत्य धावनं क्षिप्रगमनं, स्वभटकर्तृकं, तन्निषेधन्त[^४] इति तन्निषेद्धुं शीलं येषां ते इति वा, तन्निषेधिनः महारथिकाः यस्मिन् तत् । भीतानां ताडनस्य च वीराणामसम्भावितत्वादिति भावः । दैत्यानां बलं सैन्यं । 'स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः' इत्यमरः । विजहि[^५] वधं कुरु, जहीहि विसृजेत्यर्थः । पाहि पालय, निगृहाण निग्रहं कुरु, गृहाण तमिति शेषः । हर अपहर । अरिमिति शेषः । इत्येवमुपचितेन अभिवृद्धेन, नादेन ध्वनिना, मेदुरं व्याप्तं सत्, अवर्तत तस्थौ । सैनिकानां विभिन्नचित्तकत्वात् केचन अनुजगृहुः केचन निजगृहुरिति भावः । अथ यावदाश्वाससमाप्त्यवस्कन्दनप्रकारमेवाह ॥ आवृत्येति ॥ असुराः, दिशि दिशि प्रतिदिशं, तुरगानावृत्य परिवृत्य, सर्वतः परिवार्येति यावत् । आवर्तयन्तः स्वसैन्यं प्रति विनिवर्तयन्तः । वारणान् गजान्, वारयन्तो निवारयन्तः । भूषणानि मुष्णन्तः
[^१] 'निःश्वसित' -- व्याख्यापाठः, 'निष्पतित' -- मूलपाठः ॥
[^२] 'पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन' (पा. सू. २.१.४९) इति सूत्रेणेति भावः ॥
[^३] 'विशेषणं विशेष्येण बहुलम्' (पा. सू. २.१.५७) इत्यनेनेति भावः ॥
[^४] 'निषेधन् -- शत्रन्तपाठे प्रथमार्थः । 'निषेधि' -- इति णिन्यन्तपाठे 'सुप्यजातौ णिनिस्ताच्छील्ये' (पा.सू. ३.२.७८) इत्यनेन ताच्छील्ये णिनिरिति भावः ॥
[^५] 'विजहि' -- विपूर्वात् हन्तेर्लोटि मध्यमैकवचने -- 'हन्तेर्जः' (पा.सू. ६.४.३६) इति हनो जादेशे रूपम् ॥ जहीहि -- 'ओ हाक् त्यागे' इत्यस्मात् धातोः । 'जहाहि, 'जजहिहि जहीहि रामभार्याम्' '...जहिहि द्वेषं जहाहि प्रमदावनम् ॥' (भ. का २०-१० ) इत्यत्रेव लोट्मध्यमैकवचने रूपम् ॥