2023-07-20 08:48:58 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  S
  
  
  
   
  
  
  
  नीलकण्ठविजये सव्याख्याने
  
  
  
   
  
  
  
  विजहि जहीहि पाहि निगृहाण गृहाण हरे-
  
  
  
  
  
  
  
  त्युपचितनादमेदुरमवर्तत दैत्यबलम् ॥ ४६ ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  अपि च ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  आवृत्यावर्तयन्तो दिशि दिशि तुरगान् वारणान् वारयन्तो
  
  
  
  
  
  
  
  मुष्णन्तो भूषणानि प्रसभमभिनिपत्यायुधान्याहरन्तः ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  मूर्च्छिताः, नि:निःश्वसिताः'[^१] जीवनादृष्टवशादाश्वसिताः । क्षताः ताडिता:ताः । एतत्समासे
  
  
  
   प्रथमं तान्तानां सर्वेषां परस्परं स्नातानुलिप्तवत्समास:सः[^२] । पश्चाद्विबुधशब्देन कर्म-
  
  
  
  धारय:यः[^३] । एवञ्च इत्थम्भूतान् देवाननुसृत्य धावनं क्षिप्रगमनं, स्वभटकर्तृकं,
  
  
  
   तन्निषेघन्तधन्त[^४] इति तन्निषेद्धंधुं शीलं येषां ते इति वा, तन्निषेधिनः महारथिकाः
  
  
  
   यस्मिन् तत् । भीतानां ताडनस्य च वीराणामसम्भावितत्वादिति भावः । दैत्यानां
  
  
  
   बलं सैन्यं । 'स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः' इत्यमरः । विजहि S
  
  
  
  [^५] वधं कुरु, जहीहि विसृजेत्यर्थ:थः । पाहि पालय, निगृहाण निग्रहं कुरु, गृहाण
  
  
  
   तमिति शेष:षः । हर अपहर । अरिमिति शेषः । इत्येवमुपचितेन अभिवृद्धेन,
  
  
  
   नादेन ध्वनिना, मेदुरं व्याप्तं सत्, अवर्तत तस्थौ । सैनिकानां विभिन्नचित्तक-
  
  
  
  त्वात् केचन अनुजगृहु:हुः केचन निजगृहुरिति भावः । अथ यावदाश्वाससमाप्त्यव-
  
  
  
  स्कन्दनप्रकारमेवाह ॥ आवृत्येति ॥ असुराः, दिशि दिशि प्रतिदिशं, तुरगा-
  
  
  
  नावृत्य परिवृत्य, सर्वतः परिवार्येति यावत् । आवर्तयन्तः स्वसैन्यं प्रति
  
  
  
   विनिवर्तयन्तः । वारणान् गजान्, वारयन्तो निवारयन्तः । भूषणानि मुष्णन्तः
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] 'निःश्वसित' –-- व्याख्यापाठः, 'निष्पतित ' –' -- मूलपाठः ॥
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  2.
  
  
  
   
  
  
  
  [^२] 'पूर्वकालेलैकसर्वनजरत्पुराणनवकेवला:लाः समानाधिकरणेन' (पा. सू. 2-1-49२.१.४९)
  
  
  
   इति सूत्रेणेति भावः ॥
  
  
  
   
  
  
  
  3.
  
  
  
   
  
  
  
  [^३] 'विशेषणं विशेष्येण बहुलम्' (पा. सू. 2-1-57२.१.५७) इत्यनेनेति भावः ॥
  
  
  
  4.
  
  
  
  [^४] 'निषेधन्– रा -- शत्रन्तपाठे प्रथमार्थः । 'निषेधि' -- इति णिन्यन्तपाठे 'सुप्यजातौ
  
  
  
   णिनिस्ताच्छील्ये' (पा.सू. 3-2-78३.२.७८) इत्यनेन ताच्छील्ये णिनिरिति भावः ॥
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  5.
  
  
  
   
  
  
  
  [^५] 'विजहि' —-- विपूर्वात् इहन्तेर्लोटेटि मध्यमैकवचने- 'इ -- 'हन्तेज: र्जः' (पा.सू. 64-36६.४.३६)
  
  
  
   इति हनो जादेशे रूपम् ॥ जहीहि •-- 'ओ हाक् त्यागे' इत्यस्मात् धातो:तोः । 'जहाहि,
  
  
  
   'जजहिहि जहीहि रामभार्याम्' '...जहिहि द्वेषं जहाहि प्रमदावनम् ॥' (भ. का 20-10२०-१० )
  
  
  
   इत्यत्रेव लोट्मध्य मैकवचने रूपम् ॥