This page has not been fully proofread.

S
 
नीलकण्ठविजये सव्याख्याने
 
विजहि जहीहि पाहि निगृहाण गृहाण हरे-
त्युपचितनादमेदुरमवर्तत दैत्यबलम् ॥ ४६ ॥
 
अपि च ।
 
आवृत्यावर्तयन्तो दिशि दिशि तुरगान् वारणान् वारयन्तो
मुष्णन्तो भूषणानि प्रसभमभिनिपत्यायुधान्याहरन्तः ।
 
मूच्छिताः, नि:श्वसिताः' जीवनादृष्टवशादाश्वसिताः । क्षताः ताडिता: । एतत्समासे
प्रथमं तान्तानां सर्वेषां परस्परं स्नातानुलिप्तवत्समास: । पश्चाद्विबुधशब्देन कर्म-
धारय: । एवञ्च इत्थम्भूतान् देवाननुसृत्य धावनं क्षिप्रगमनं, स्वभटकर्तृकं,
तन्निषेघन्त इति तन्निषेद्धं शीलं येषां ते इति वा, तन्निषेधिनः महारथिकाः
यस्मिन् तत् । भीतानां ताडनस्य च वीराणामसम्भावितत्वादिति भावः । दैत्यानां
बलं सैन्यं । 'स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः' इत्यमरः । विजहि S
वधं कुरु, जहीहि विसृजेत्यर्थ: । पाहि पालय, निगृहाण निग्रहं कुरु, गृहाण
तमिति शेष: । हर अपहर । अरिमिति शेषः । इत्येवमुपचितेन अभिवृद्धेन,
नादेन ध्वनिना, मेदुरं व्याप्तं सत्, अवर्तत तस्थौ । सैनिकानां विभिन्नचित्तक-
त्वात् केचन अनुजगृहु: केचन निजगृहुरिति भावः । अथ यावदाश्वाससमाप्त्यव-
स्कन्दनप्रकारमेवाह ॥ आवृत्येति ॥ असुराः, दिशि दिशि प्रतिदिशं, तुरगा-
नावृत्य परिवृत्य, सर्वतः परिवार्येति यावत् । आवर्तयन्तः स्वसैन्यं प्रति
विनिवर्तयन्तः । वारणान् गजान्, वारयन्तो निवारयन्तः । भूषणानि मुष्णन्तः
 
1. 'निःश्वसित' – व्याख्यापाठः, 'निष्पतित ' – मूलपाठः ॥
 
-
 
2. 'पूर्वकालेकसर्वनरत्पुराणनवकेवला: समानाधिकरणेन' (पा. सू. 2-1-49)
इति सूत्रेणेति भावः ॥
 
3. 'विशेषणं विशेष्येण बहुलम्' (पा. सू. 2-1-57) इत्यनेनेति भावः ॥
4. 'निषेधन्– रात्रन्तपाठे प्रथमार्थः । 'निषेधि' - इति णिन्यन्तपाठे 'सुप्यजातौ
णिनिस्ताच्छील्ये' (पा.सू. 3-2-78) इत्यनेन ताच्छील्ये णिनिरिति भावः ॥
 
-
 
-
 
-
 
5. 'विजहि' — विपूर्वात् इन्तेर्लोटे मध्यमैकवचने- 'इन्तेज: ' (पा.सू. 64-36)
इति हनो जादेशे रूपम् ॥ जहीहि • 'ओ हाक् त्यागे' इत्यस्मात् धातो: । 'जहाहि,
'जजहिहि जहीहि रामभार्याम्' '...जहिहि द्वेषं जहाहि प्रमदावनम् ॥' (भ. का 20-10 )
इत्यत्रेव लोमध्य मैकवने रूपम् ॥