This page has been fully proofread twice.

विद्राणे वरुणे, गते हुतवहे, वैवस्वते मूर्च्छिते
सद्यो लोचनगोचरादपगते संक्रन्दनस्यन्दने ।
संवर्तव्यतिषक्तसप्तजलधिस्रोतःप्रभूतध्वनि-
स्फारः कोऽपि बभूव दानवबले हर्षाट्टहासध्वनिः ॥ ४५ ॥
 
चकितपलायितस्खलितमूर्च्छितनिष्पतित-
क्षतविबुधानुधावननिषेधिमहारथिकम् ।
 
[commentary]
 
म्भाववेदी को वा बुद्धिमान् गुरुप्रयत्नेनापि दुस्साध्यफले युद्धे अन्यत्रापि गत्वा प्राणान् त्यजतीति भावः । देवसेनाध्यक्षेषु प्रस्थितेषु लब्धविजया दैत्यासिंहनादं चक्रुरित्याह ॥ विद्राण इति ॥ वरुणे विद्राणे विद्रुते सति । हुतं वहतीति हुतवहः । तस्मिन् गते निर्गते सति । वैवस्वते यमे । 'श्राद्धदेवो वैवस्वतोऽन्तकः' इत्यमरः । मूर्च्छा, अस्य सञ्जाता मूर्च्छितः तस्मिन् सति । 'तदस्य सञ्जातं
तारकादिभ्य इतच्' (पा.सू. ५.२.३६) इतीतच्प्रत्ययः । सद्यः तत्क्षणं, सङ्क्रन्दनस्य इन्द्रस्य, स्यन्दने रथे, लोचनानां गोचरो देशः तस्मात्तमपहायेत्यर्थः । ल्यब्लोपे [^१]कर्मणि पञ्चमी । यद्वा लोचनानां गोचरः विषयः, तस्मात् लोचनविषये अनवस्थायेत्यर्थः । ल्यब्लोपे अधिकरणे[^२] पञ्चमी । अपगते सति । दानवानां बले, संवर्ते प्रळये, व्यतिषक्ताः मिलिताः, ये सप्त [^३]जलधयः, तेषां, स्रोतस इव प्रवाहस्येव, प्रभूतो महान्, यो ध्वनिः तेन स्फारः अभिवृद्धः कोऽपि अवर्णनीयः, हर्षेण कृतस्याट्टहासस्य क्ष्वेडितस्य ध्वनिः बभूव । शत्रुषु पलायितेषु सत्सु प्राप्तजयाः के वा योधाः हर्षवशादट्टहासादिकं न कुर्वन्तीति भावः । दैत्यबलमवस्कन्दनैकलोलुपं सत्तस्थावित्याह ॥ चकितेति ॥ चकिताः भीताः, अत एव पलायिताः प्रधाविताः, अत एव, स्खलिताः स्खलनपतिताः, अत एव मूर्च्छा एषां सञ्जाता
 
[^१] प्रासादात् प्रेक्षते इतिवत् ।
 
[^२] आसनात् प्रेक्षते इतिवत् ।
 
[^३] सप्तसंख्याकाः जलधयः इति मध्यमपदलोपी समासः । देवपूजको ब्राह्मणः देवब्राह्मणः इतिवत् । यद्वा सप्तजलधय इति अनादिसंज्ञा इति वक्तव्यं 'दिक्संख्ये संज्ञायाम्' (२.१.५०) इति नियमात्, सप्तर्षयः पंचजनाः इत्यादिवत् ॥