2023-07-19 10:13:46 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  S
  
  
  
   
  
  
  
  प्रथमाश्वासः
  
  
  
   
  
  
  
  विद्राणे वरुणे, गते हुतवहे, वैवस्वते मूर्च्छिते
  
  
  
   
  
  
  
  
  
  
  
  सद्यो लोचनगोचरादपगते संक्रन्दनस्यन्दने ।
  
  
  
  
  
  
  
  संवर्तव्यतिषक्तसप्तजलधिस्रोतःप्रभूतध्वनि-
  
  
  
  
  
  
  
  स्फारः कोऽपि बभूव दानवबले हर्षाट्टहासध्वनिः ॥ ४५ ॥
  
  
  
   
  
  
  
  ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  चकितपलायितस्खलितमूर्च्छितनिष्पतित-
  
  
  
  
  
  
  
  क्षत विबुधानुधावन निषेधिमहारथिकम् ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  म्भाववेदी को वा बुद्धिमान् गुरुप्रयत्नेनापि दुस्साध्यफले युद्धे अन्यत्रापि गत्वा
  
  
  
   प्राणान् त्यजतीति भावः । देवसेनाध्यक्षेषु प्रस्थितेषु लब्धविजया दैत्यासिंहनादं
  
  
  
  च चक्रुरित्याह ॥ विद्राण इति ॥ वरुणे विद्राणे विद्रुते सति । हुतं वहतीति
  
  
  
   हुतवह:हः । तस्मिन् गते निर्गते सति । वैवस्वते यमे । 'श्राद्धदेवो वैवस्वतोऽन्तकः'
  
  
  
   इत्यमरः । मूर्च्छा, अस्य सञ्जाता मूर्च्छितः तस्मिन् सति । 'तदस्य सञ्जातं
  
  
  
  
  
  
  
  तारकादिभ्य इतच्' (पा.सू. 5-2-36५.२.३६) इतीतच्प्रत्ययः । सद्यः तत्क्षणं, सकूङ्क्रन्दनस्य
  
  
  
   इन्द्रस्य, स्यन्दने रथे, लोचनानां गोचरो देशः तस्मात्तमपहायेत्यर्थः । ल्यब्लोपे
  
  
  
  ' [^१]कर्मणि पञ्चमी । यद्वा लोचनानां गोचरः विषयः, तस्मात् लोचनविषये अनवस्थाये-
  
  
  
  त्यर्थः । ल्यब्लोपे अधिकरणे[^२] पञ्चमी । अपगते सति । दानवानां बले, संवर्ते
  
  
  
   प्रळये, व्यतिषक्ताः मिलिताः, ये सप्त 3 [^३]जलधयः, तेषां, स्रोतस इव प्रवाहस्येव,
  
  
  
   प्रभूतो महान्, यो ध्वनिः तेन स्फारः अभिवृद्धः कोऽपि अवर्णनीयः, हर्षेण
  
  
  
   कृतस्याट्टहासस्य क्ष्वेडितस्य ध्वनिः बभूव । शत्रुषु पलायितेषु सत्सु प्राप्तजयाः
  
  
  
   के वा योधाः हर्षवशादट्टहासादिकं न कुर्वन्तीति भावः । दैत्यबलमवस्कन्दनैक-
  
  
  
  लोलुपं सत्तस्था वित्याह ॥ चकितेति ॥ चकिताः भीताः, अत एव पलायिता:
  
  
  
  ताः प्रधाविताः, अत एव, स्खलिताः स्खलनपतिताः, अत एव मूर्च्छा एषां सञ्जाता
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] प्रासादात् प्रेक्षते इतिवत् ।
  
  
  
  2.
  
  
  
   
  
  
  
  [^२] आसनात् प्रेक्षते इतिवत् ।
  
  
  
   
  
  
  
  3.
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [^३] सप्तसंख्याका :काः जलधयः इति मध्यमपदलोपी समासः । देवपूजको ब्राह्मणः
  
  
  
   देवब्राह्मण:णः इतिवत् । यद्वा सप्तजलधय इति अनादिसंज्ञा इति वक्तव्यं 'दिक्संख्ये
  
  
  
   संज्ञायाम्' (2-1-50२.१.५०) इति नियमात्, सप्तर्षय:यः पंचजना;नाः इत्यादिवत् ॥
  
  
  
   
  
  
  
  N – 11