This page has not been fully proofread.

S
 
प्रथमाश्वासः
 
विद्राणे वरुणे, गते हुतवहे, वैवस्वते मूच्छिते
 
सद्यो लोचनगोचरादपगते संक्रन्दनस्यन्दने ।
संवर्तव्यतिषक्तसप्तजलधिस्रोतःप्रभूतध्वनि-
स्फारः कोऽपि बभूव दानवबले हर्षाट्टहासध्वनिः ॥ ४५ ॥
 

 
चकितपलायितस्खलितमूर्च्छितनिष्पतित-
क्षत विबुधानुधावन निषेधिमहारथिकम् ।
 
म्भाववेदी को वा बुद्धिमान् गुरुप्रयत्नेनापि दुस्साध्यफले युद्धे अन्यत्रापि गत्वा
प्राणान् त्यजतीति भावः । देवसेनाध्यक्षेषु प्रस्थितेषु लब्धविजया दैत्यासिंहनादं
चरित्याह ॥ विद्राण इति ॥ वरुणे विद्राणे विद्रुते सति । हुतं वहतीति
हुतवह: । तस्मिन् गते निर्गते सति । वैवस्वते यमे । 'श्राद्धदेवो वैवस्वतोऽन्तकः'
इत्यमरः । मूर्च्छा, अस्य सञ्जाता मूच्छितः तस्मिन् सति । 'तदस्य सञ्जातं
तारकादिभ्य इतच्' (पा.सू. 5-2-36) इतीतच्प्रत्ययः । सद्यः तत्क्षणं, सकून्दनस्य
इन्द्रस्य, स्यन्दने रथे, लोचनानां गोचरो देशः तस्मात्तमपहायेत्यर्थः । ल्यब्लोपे
'कर्मणि पञ्चमी । यद्वा लोचनानां गोचरः विषयः, तस्मात् लोचनविषये अनवस्थाये-
त्यर्थः । ल्यब्लोपे अधिकरणे पञ्चमी । अपगते सति । दानवानां बले, संवर्ते
प्रळये, व्यतिषक्ताः मिलिताः, ये सप्त 3 जलधयः, तेषां, स्रोतस इव प्रवाहस्येव,
प्रभूतो महान्, यो ध्वनिः तेन स्फारः अभिवृद्धः कोऽपि अवर्णनीयः, हर्षेण
कृतस्याट्टहासस्य क्ष्वेडितस्य ध्वनिः बभूव । शत्रुषु पलायितेषु सत्सु प्राप्तजयाः
के वा योधाः हर्षवशादट्टहासादिकं न कुर्वन्तीति भावः । दैत्यबलमवस्कन्दनैक-
लोलुपं सत्तस्था वित्याह ॥ चकितेति ॥ चकिताः भीताः, अत एव पलायिता:
प्रधाविताः, अत एव, स्खलिताः स्खलनपतिताः, अत एव मूर्च्छा एषां सञ्जाता
 
"
 
1. प्रासादात् प्रेक्षते इतिवत् ।
2. आसनात् प्रेक्षते इतिवत् ।
 
3.
 
सप्तसंख्याका : जलधयः इति मध्यमपदलोपी समासः । देवपूजको ब्राह्मणः
देवब्राह्मण: इतिवत् । यद्वा सप्तजलधय इति अनादिसंज्ञा इति वक्तव्यं 'दिक्संख्ये
संज्ञायाम्' (2-1-50) इति नियमात्, सप्तर्षय: पंचजना; इत्यादिवत् ॥
 
N – 11