This page has been fully proofread twice.

त्रैलोक्यं, विध्यण्डान्येव कियन्ति विजितानि तारकेण । तदलम् अनुस्मर शापान्तवचनमत्याश्रमस्य मुनेः । भवेयुरपि कदाचिदन्यथा भाषितानि महेश्वरस्य, न तु जातु माहेश्वराणाम् । यत्पुरोदितं गोविन्द
एव कुशलानि करिष्यतीति महर्षिणा, तदनुदितम् 'अग्रे भवितव्यमन्यथा' इत्यधुना परमेष्ठिना । तदेहि कञ्चित्कालमन्तर्हिता एव क्वचिदावसाम इत्यनुशिष्य शिष्यम्, अन्तर्धाप्य स्वयोगमायया, तिरोदधे स्वयमपि देशिको देवतानाम् ।
 
[Commentary]
 
अचाञ्चल्यमिति यावत् । किं किमर्थम्, अभिमन्यसे अभिजानासीत्यर्थः । 'आपदः क्षणमायान्ति क्षणमायान्ति सम्पदः । क्षणं जन्मापि मरणं मुने किमिह न क्षणम् ॥ अशूरेण हतश्शूर एकेनापि हतं शतम् । प्राकृताः प्रभुतां याताः सर्वमावर्तते जगत् ॥ 'इत्यादिपुराणानि श्रुतवता त्वया श्रीनैयत्यन्नाभिमन्तव्यमिति भावः । वक्तव्यमुक्त्वा ईशोपदिष्टमर्थमनुवर्तयितुमिन्द्रं प्रोत्साहयति ॥ अथेति ॥ इदं, त्रैलोक्यं त्रिभुवनं, केन किल केन वा अधिष्ठितमध्युषितं आश्रितमिति वार्थः । तारकेण शूरपद्मानुजेन, कियन्ति कति, विध्यण्डानि ब्रह्माण्डानि, जितान्यासन् । तत्ततः अलं खेदं प्राप्येत्यादिः । आश्रमान् ब्रह्मचर्यादीनतिक्रान्तः अत्याश्रमः । तस्य अवधूतस्येत्यर्थः । मुनेर्दुर्वाससस्सम्बन्धि, शापान्तस्य शापावधेर्वचनम् उक्तिं, अनुस्मर । महेश्वरस्य, भाषणानि वचनानि, कदाचिदन्यथा प्रकारान्तरेण, भवन्ति, माहेश्वराणां शिवभक्तानां, भाषणानि, अन्यथा प्रकारान्तरेण, न भवेयुरेव । कुम्भकर्णपिपीलिकादिप्रार्थनावसरे प्रयुक्तस्य शिववचनस्य कालान्तरे विपरीतत्वादिति भावः ॥ यदिति ॥ पुरा, महर्षिणा दुर्वाससा, गोविन्द एव कुशलानि करिष्यतीति यद्वच उदितम्, अधुना तद्वचनं परमेष्ठिना ब्रह्मणा, 'अग्रे भाव्यं किलान्यथा' इत्यनेनानूदितं पुनर्भाषितम् तद्वचनादन्यदिदमाकाशवचनमिति न जानीहीति भावः । इन्द्रं प्रोत्साह्य तेन सह गुरुरन्तरधादित्याह ॥ तदिति ॥ तत्ततः एह्यागच्छ, कञ्चित्कालं । 'कालाध्वनोरत्यन्तसंयोगे' (पा.सू २.३.५) इति द्वितीया ।
कस्मिंश्चित्काल इत्यर्थः । अन्तर्हिता एव केनचिदनवलोकिता एव । आवसामः तिष्ठामः । इति शिष्यमिन्द्रमनुशिष्य शिक्षां कृत्वा, स्वस्य योगमायया योगशक्त्या, शिष्यमन्तर्धाप्य अन्तर्धानं प्रापय्य, देवतानां, देवानां, देशिको गुरुः, बृहस्पतिः, स्वयमपि, तिरोदधे अन्तरधादित्यर्थः । लघुनोपायेन भाविफलावश्य-