This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
 
त्रैलोक्यं, विध्यण्डान्येव कियन्ति विजितानि तारकेण । तदलम्
अनुस्मर शापान्तवचनमत्याश्रमस्य मुनेः । भवेयुरपि कदाचिदन्यथा
भाषितानि महेश्वरस्य, न तु जातु माहेश्वराणाम् । यत्पुरोदितं गोविन्द
एव कुशलानि करिष्यतीति महर्षिणा, तदनुदितम् 'अग्रे भवितव्यमन्यथा '
इत्यधुना परमेष्ठिना । तदेहि कञ्चित्कालमन्तर्हिता एव क्वचिदावसाम
इत्यनुशिष्य शिष्यम्, अन्तर्धाप्य स्त्रयोगमायया, तिरोदधे स्वयमपि
देशिको देवतानाम् ।
 

 
अचाञ्चल्यमिति यावत् । किं किमर्थम्, अभिमन्यसे अभिजानासीत्यर्थः ।
'आपद: क्षणमायान्ति क्षणमायान्ति सम्पदः । क्षण जन्मापि मरणं मुने किमिह
न क्षणम् ॥ अशूरेण हतश्शूर एकेनापि हतं शतम् । प्राकृताः प्रभुतां याताः
सर्वमावर्तते जगत् ॥' इत्यादिपुराणानि श्रुतवता त्वया श्रीनैयत्यन्नाभिमन्तव्यमिति
भाव: । वक्तव्यमुत्तवा ईशोपदिष्टमर्थमनुवर्तयितुमिन्द्रं प्रोत्साहयति ॥ अथेति ॥
इदं, त्रैलोक्यं त्रिभुवनं, केन किल केन वा अधिष्ठितमध्युषितं आश्रितमिति
वार्थ: । तारकेण शूरपद्मानुजेन, कियन्ति कति, विध्यण्डानि ब्रह्माण्डानि,
जितान्यासन् । तत्ततः अलं खेदं प्राप्येत्यादिः । आश्रमान् ब्रह्मचर्यादीनतिक्रान्तः
अत्याश्रमः । तस्य अवधूतस्येत्यर्थः । मुर्दुर्वाससस्सम्बन्धि, शापान्तस्य शापाव-
घेर्वचनम् उक्ति, अनुस्मर । महेश्वरस्य, भाषणानि वचनानि, कदाचिदन्यथा प्रकारा-
न्तरेण, भवन्ति, माहेश्वराणां शिवभक्तानां, भाषणानि, अन्यथा प्रकारान्तरेण, न
भवेयुरेव । कुम्भकर्णपिपीलिकादिप्रार्थनावसरे प्रयुक्तस्य शिववचनस्य कालान्तरे
विपरीतत्वादिति भावः ॥ यदिति ॥ पुरा, महर्षिणा दुर्वाससा, गोबिन्द एव कुश -
लानि करिष्यतीति यद्वच उदितम्, अधुना तद्वचनं परमेष्ठिना ब्रह्मणा, 'अग्रे भाव्यं
किलान्यथा' इत्यनेनानूदितं पुनर्भाषितम् तद्वचनादन्यदिदमाकाशवचन मिति न
जानीहीति भावः । इन्द्रं प्रोत्साह्य तेन सह गुरुरन्तरघादित्याह ॥ तदिति ॥ तत्ततः
एह्यागच्छ, कञ्चित्कालं। 'कालाध्वनोरत्यन्तसंयोगे' (पा.सू 2-3-5) इति द्वितीया ।
कस्मिंश्चित्काल इत्यर्थः । अन्तर्हिता एव केनचिदनवलोकिता एव । आवसामः
तिष्ठामः । इति शिष्यमिन्द्रमनुशिष्य शिक्षां कृत्वा, स्वस्य योगमायया योग-
शक्त्या, शिष्यमन्तर्धाप्य अन्तर्धानं प्रापय्य, देवतानां, देवानां, देशिको गुरुः,
बृहस्पतिः, स्वयमपि, तिरोदधे अन्तरघादित्यर्थः । लघुनोपायेन भाविफलावश्य-
"