This page has been fully proofread twice.

इत्याकाशगिरा शक्रो मत्या च क्रूरया स्वया ।
यावड्डोलायते तावदागत्याबोधयद्गुरुः ॥ ४४ ॥
 
हन्त कथमेतदमरपतेः धीमतोऽपि ते दुर्व्यवसितं, अविदितं न ते वेदितव्यम्, अवशेषितं वा गुरूणामुपासनं, किं न जानासि भवितव्यतां, किं वाभिमन्यसे जयश्रियो नैयत्यम् । ननु श्रूयत एव
पुराणेषु भवता, यत्किल मालिसुमालिसङ्गरे महति परिवर्तमाने, पराचीने पतगपतौ, भगवतापि पराववृते । अथ केन किलेदमधिष्ठितं
 
[commentary]
 
धेहि निधेहि, निक्षिपेति यावत् । आत्मनाशे संप्राप्ते को वा बुद्धिमान् सर्वं न त्यजतीति भावः । आकाशवाणीं श्रुत्वापि झडिति गन्तुं सन्दिदेहेत्याह ॥ इतीति ॥ इत्येवंप्रकारया, आकाशगिरा । क्रूरया मुमूर्षाजनिकया, स्वयामत्या बुद्ध्या च, यावत्, [^१]डोलायते डोलेवानवस्थानं लेभे, तावद्गुरुः बृहस्पतिरागत्य अबोधयत् अवशिष्टं वक्तव्यमिति शेषः । उपदिदेशेत्यर्थः । शूरतमः को वा रथिकः भीरुरिव पलायितुमुत्सहत इति भावः । बोधनप्रकारमेवाह त्रिभिर्गद्यैः ॥ हन्तेति ॥ अमराणां पतेश्श्रेष्ठस्य [^२]धीमतोऽपि प्रशस्तबुद्धिशालिनोऽपि । प्रशंसायां मतुप् । ते तव, दुर्व्यवसितं दुष्टव्यवसायः, दुर्बुद्धिरिति यावत् । एतत् किं ते तव, वेदितव्यं वेदितुं योग्यं सत्, अविदितमज्ञातं नास्तीत्यर्थः । त्वं विदितवेद्योऽसीति भावः । गुरूणां विद्यागुरूणाम्, उपासनं पर्युपासनमवशेषितं, किं न किलेत्यर्थः । पर्युपासितैर्गुरुभिस्तुभ्यं रहस्यमपि उपदिष्टमेवेति भावः ।
भवितव्यतां कर्मायत्तसुखदुःखादिवैचित्र्यं, न जानासि किं ? । जानास्येवेत्यर्थः । सर्वस्य वेद्यस्य मया उपदिष्टत्वादिति भावः ॥ किं वेति ॥ महत्यधिके, मालिसुमालिभ्यां तन्नामकासुराभ्यां भ्रातृभ्यां सह सङ्गरे, परिवर्तमाने प्रवर्तमाने सति, पतगपतौ गरुडे, पराचीने निवृत्त सति । भगवता गोविन्देनापि, पराववृते विनिववृत, इति यत् प्रधावितुं पश्चाद्दृष्टिना अभावीति यदित्यर्थः । तत्पुराणेषु भवता
श्रूयत एव । वाकारो भिन्नक्रमः । जयश्रियो जयलक्ष्म्याः, नैयत्यं एकत्रावस्थानं,
 
[^१] 'कर्तुः क्यङ् सलोपश्च' (पा. सू. ३.१.११) इति कर्तर्युपमाने डोले वाचरति इत्यर्थे क्यचोऽपवादः क्यङ् । ङित्वादात्मनेपदम् । कृष्ण इवाचरति कृष्णायते इतिवत् ॥
 
[^२] 'भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने' इत्यादिकारिकाऽनुशासनादिति भावः ॥