2023-07-19 09:50:44 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  प्रथमाश्वासः
  
  
  
   
  
  
  
  इत्याकाशगिरा शकोक्रो मत्या च क्रूरया स्वया ।
  
  
  
  
  
  
  
  यावड्डोलायते तावदागत्याबोधयद्गुरुः ॥ ४४ ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  हन्त कथमेतदमरपतेः धीमतोऽपि ते दुर्व्यवसितं, अविदितं न
  
  
  
   ते वेदितव्यम्, अवशेषितं वा गुरूणामुपासनं, किं न जानासि भवि-
  
  
  
  तव्यतां, किं वाभिमन्यसे जयश्रियो नैयत्यम् । ननु श्रूयत एव
  
  
  
  
  
  
  
  पुराणेषु भवता, यत्किल मालिसुमालिसङ्गरे महति परिवर्तमाने,
  
  
  
   पराचीने पतगपतौ, भगवतापि पराववृते । अथ केन किलेदमधिष्ठितं
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  घेहि निधेहि, निक्षिपेति यावत् । आत्मनाशे संप्राप्ते को वा बुद्धिमान् सर्ववं न
  
  
  
   त्यजतीति भावः । आकाशवाणीं श्रुत्वापि झडिति गन्तुं सन्दिदेहेत्याह
  
  
  
   
  
  
  
  ।
  
  
  
   
  
  
  
   ॥ इतीति ॥ इत्येवंप्रकारया, आकाशगिरा । क्रूरया मुमूर्षाज निकया, स्वया
  
  
  
  मत्या बुद्ध्या च, यावत्, '[^१]डोलायते डोलेवानवस्थानं लेभे, तावद्गुरुः बृहस्पतिरा-
  
  
  
  गत्य अबोधयत् अवशिष्टं वक्तव्यमिति शेषः । उपदिदेशेत्यर्थः । शूरतमः को वा
  
  
  
   रथिक:कः भीरुरिव पलायितुमुत्सहत इति भावः । बोधनप्रकारमेवाह त्रिभिर्गद्यैः
  
  
  
   ॥ हन्तेति ॥ अमराणां पतेश्श्रेष्ठस्य [^२]धीमतोऽपि प्रशस्तबुद्धिशालिनोऽपि ।
  
  
  
   प्रशंसायां मतुप् । ते तव, दुर्व्यवसितं दुष्टव्यवसाययः, दुर्बुद्धिरिति यावत् । एतत्
  
  
  
  ते
  
  
  
   किं ते तव, वेदितव्यं वेदितुं योग्यं सत्, अविदितमज्ञातं नास्तीत्यर्थः । त्वं
  
  
  
   विदितवेद्योऽसीति भावः । गुरूणां विद्यागुरूणाम्, उपासनं पर्युपासनमवशेषित,
  
  
  
  तं, किं न किलेत्यर्थः । पर्युपासिततैर्गुरुभिस्तुभ्यं रहस्यमपि उपदिष्टमेवेति भावः ।
  
  
  
  
  
  
  
  भवितव्यतां कर्मायत्तसुखदुःखादिवैचित्र्यं, न जानासि किं ? । जानास्येवेत्यर्थः ।
  
  
  
   सर्वस्य वेद्यस्य मया उपदिष्टत्वादिति भावः ॥ किं वेति ॥ महत्यधिके,
  
  
  
   मालिसुमालिभ्यां तन्नामकासुराभ्यां भ्रातृभ्यां सह सङ्गरे, परिवर्तमाने प्रवर्तमाने
  
  
  
   सति, पतगपतौ गरुडे, पराचीने निवृत्त सति । भगवता गोविन्देनापि, पराववृते
  
  
  
   विनिववृत, इति यत् प्रधावितुं पश्चाद्दृष्टिना अभावीति यदित्यर्थः । तत्पुराणेषु भवता
  
  
  
  
  
  
  
  श्रूयत एव । वाकारो भिन्नक्रमः । जयश्रियो जयलक्ष्म्याः, नैयत्यं एकत्रावस्थानं,
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] 'कर्तु:तुः क्यद्ङ् सलोपश्च' (पा. सू. 3-1-11३.१.११) इति कर्तुतर्युपमाने डोले वाचरति
  
  
  
   इत्यर्थे क्यचोऽपवादः क्यङ् । ङित्वादात्मनेपदम् । कृष्ण इवाचरति कृष्णायते इतिवत् ॥
  
  
  
  2.
  
  
  
   
  
  
  
  [^२] 'भूमनिन्दा प्रशंसासु नित्ययोगेऽतिशायने' इत्यादिकारिकाऽनुशासनादिति भावः ॥