2023-06-05 16:39:51 by ambuda-bot
This page has not been fully proofread.
प्रथमाश्वासः
इत्याकाशगिरा शको मत्या च क्रूरया स्वया ।
यावड्डोलायते तावदागत्याबोधयद्गुरुः ॥ ४४ ॥
हन्त कथमेतदमरपतेः धीमतोऽपि ते दुर्व्यवसितं, अविदितं न
ते वेदितव्यम्, अवशेषितं वा गुरूणामुपासनं, किं न जानासि भवि-
तव्यतां, किं वाभिमन्यसे जयश्रियो नैयत्यम् । ननु श्रूयत एव
पुराणेषु भवता, यत्किल मालिसुमालिसङ्गरे महति परिवर्तमाने,
पराचीने पतगपतौ, भगवतापि पराववृते । अथ केन किलेदमधिष्ठितं
घेहि निधेहि, निक्षिपेति यावत् । आत्मनाशे संप्राप्ते को वा बुद्धिमान् सर्व न
त्यजतीति भावः । आकाशवाणीं श्रुत्वापि झडिति गन्तुं सन्दिदेहेत्याह
।
॥ इतीति ॥ इत्येवंप्रकारया, आकाशगिरा । क्रूरया मुमूर्षाज निकया, स्वया
मत्या बुद्ध्या च, यावत्, 'डोलायते डोलेवानवस्थानं लेभे, तावद्गुरुः बृहस्पतिरा-
गत्य अबोधयत् अवशिष्टं वक्तव्यमिति शेषः । उपदिदेशेत्यर्थः । शूरतमः को वा
रथिक: भीरुरिव पलायितुमुत्सहत इति भावः । बोधनप्रकारमेवाह त्रिभिगद्यैः
॥ हन्तेति ॥ अमराणां पतेश्श्रेष्ठस्य धीमतोऽपि प्रशस्तबुद्धिशालिनोऽपि ।
प्रशंसायां मतुप् । ते तव, दुर्व्यवसितं दुष्टव्यवसाय, दुर्बुद्धिरिति यावत् । एतत्
ते
किं ते तव, वेदितव्यं वेदितुं योग्यं सत्, अविदितमज्ञातं नास्तीत्यर्थः । त्वं
विदितवेद्योऽसीति भावः । गुरूणां विद्यागुरूणाम्, उपासनं पर्युपासनमवशेषित,
किं न किलेत्यर्थः । पर्युपासितगुरुभिस्तुभ्यं रहस्यमपि उपदिष्टमेवेति भावः ।
भवितव्यतां कर्मायत्तसुखदुःखादिवैचित्र्यं, न जानासि किं ? । जानास्येवेत्यर्थः ।
सर्वस्य वेद्यस्य मया उपदिष्टत्वादिति भावः ॥ किं वेति ॥ महत्यधिके,
मालिसुमालिभ्यां तन्नामकासुराभ्यां भ्रातृभ्यां सह सगरे, परिवर्तमाने प्रवर्तमाने
सति, पतगपतौ गरुडे, पराचीने निवृत्त सति । भगवता गोविन्देनापि, पराववृते
विनिववृत, इति यत् प्रधावितुं पश्चादृष्टिना अभावीति यदित्यर्थः । तत्पुराणेषु भवता
श्रूयत एव । वाकारो भिन्नक्रमः । जयश्रियो जयलक्ष्म्याः, नैयत्यं एकत्रावस्थानं,
1. 'कर्तु: क्यद् सलोपश्च' (पा. सू. 3-1-11) इति कर्तुर्युपमाने डोले वाचरति
इत्यर्थे क्यचोऽपवादः क्यङ् । ङित्वादात्मनेपदम् । कृष्ण इवाचरति कृष्णायते इतिवत् ॥
2. 'भूमनिन्दा प्रशंसासु नित्ययोगेऽतिशायने' इत्यादिकारिकाऽनुशासनादिति भावः ॥