This page has been fully proofread twice.

समरे तनुं त्यजामीति सन्नह्य पुरश्चरन् शचीपतिरशृणोदन्तरिक्षगां वाणीम् ।
 
अहो ते शक्र धीमान्द्यमग्रे भाव्यं किलान्यथा ।
अन्तर्धेहि रणादस्मादन्तर्धेहि च मद्गिरम् ॥ ४३ ॥
 
[commentary]
 
कर्तरि क्तः । निहतेन संहृतेन मया किं । जीवितेन जीवता किं । यथा मृतान्मत्तः पुत्रदारादीनां प्रयोजनं नास्ति तथा विद्यमानादपि मत्त इति भावः । अथवा निहतेन संहृतप्रायेण जीवितेन जीवता जीवच्छवेनेति यावत् । विपरीतः प्रतिकूलः विधिः दैवं । 'विधिर्विधाने दैवेऽपि' इत्यमरः । इतोऽपि विद्यमानदुरवस्थातोऽपि । किमवस्थान्तरं करिष्यति । स्वर्गस्येदं सौवर्गं स्वर्गसम्बन्धीत्यर्थः ।आधिपत्यं प्रभुत्वं, न चिकीर्षामि कर्तुन्नेच्छामीत्यर्थः । दानवानामौद्धत्यं, न जिहीर्षामि अपहर्तुं नेच्छामीत्यर्थः । यावदीदृशः एवं भूतः, अहं, कस्यचिद्दृग्गोचरे दृग्देशे न पतेयं यस्यकस्यचिद्दॄदृग्विषयो न भवेयमित्यर्थः । तावदस्मिन्नेव, समरे रणरङ्गे, तनुं त्यजामि विसृजामीति, सन्ना सन्नद्धो भूत्वा, पुरश्चलन् सञ्चरन् । शचीपतिरिन्द्रः, अन्तरिक्षं गच्छति भजतीत्यन्तरिक्षगा तां वाणीं वाचमशृणोत् शुश्राव । 'श्रु श्रवणे'[^२] इस्यस्य लङ् । भीतं भक्तं भगवान् हरिः कदा नोद्धरतीति भावः । वागानुपूर्वीप्रकारमाह ॥ अहो इति ॥ हे शक्र ! इन्द्र ते तव, धियो मान्द्यं कार्याकार्यग्रहणाचातुर्यम् अहो विस्मयावहम् । बृहस्पतिपरिशिक्षितस्यापि तव कथं प्रमाद इति भावः । अग्रे उत्तरकाले, अन्यथा प्रकारान्तरेण भाव्यं भवितव्यं, वर्तिष्यते । त्वदीयैस्सह तवैवामृतलाभादिकं भवेदिति भावः । अस्माद्रणात्कलहात् । ल्यब्लोपे [^३]कर्मणि पञ्चमी । रणं विहायेत्यर्थः । अन्तर्धेहि [^४]अदर्शनं भज । निगूढस्सन्नपसरेत्यर्थः । मद्विरं मदुदीरितां वाचं अन्तर्मनसि,
 
[^२] 'श्रु श्रवणे' -- इति भौवादिकः । 'अथाजन्ताः परस्मैपदिनः' इत्यारभ्य पठितेषु षट्चत्वारिंशद्धातुषु अयमेकचत्वारिंशः धातुः ॥
 
[^३] 'ल्यब्लोपे कर्मण्यधिकरणे च' -- इति वार्तिकेन 'प्रासादात्-प्रासादमारुह्य प्रेक्षते' इतिवत् ॥
 
[^४] अन्तर् शब्दस्योपसर्गसंज्ञा 'श्रदन्तरोरुपसर्गत्वं वक्तव्यम्' -- इत्यनुशासनात् । तदा अदर्शनं भजेत्यर्थः । अन्तः = मनसि इत्यव्ययत्वे -- धेहि -- धाञ् धातोर्लोटि मध्यमैकवचनस्य निक्षिपेत्यर्थः इति विवेक्तव्यम् ॥