This page has not been fully proofread.

७८
 
नीलकण्ठविजये सव्याख्याने
 
समरे तनुं त्यजामीति सन्ना पुरश्चरन् शचीपतिरभृणोदन्तरिक्षगां
वाणीम् ।
 
अहो ते शक धीमान्द्यम भाव्यं किलान्यथा ।
अन्तर्धेहि रणादस्मादन्तर्घेहि च मद्विरम् ॥ ४३ ॥
 
स्वर्गसम्ब
 
कर्तरि क्तः । निहतेन संहृतेन मया किं । जीवितेन जीवता किं । यथा
मृतान्मत्तः पुत्रदारादीनां प्रयोजनं नास्ति तथा विद्यमानादपि मत्त इति भावः ।
अथवा निहतेन संहृतप्रायेण जीवितेन जीवता जीवच्छवेनेति यावत् । विपरीतः
प्रतिकूल: विधिः दैवं । 'विधिविधाने दैवेऽपि ' इत्यमरः । इतोऽपि विद्यमान -
दुरवस्थातोऽपि । किमवस्थान्तरं करिष्यति । स्वर्गस्येदं सौवर्ग
न्धीत्यर्थः । आधिपत्यं प्रभुत्वं, न चिकीर्षामि कर्तुत्नेच्छामीत्यर्थः । दानवानामौ-
द्धत्यं, न जिहीर्षामि अपहर्तुं नेच्छामीत्यर्थः । यावदीदृशः एवं भूतः, अहं,
कस्यचिद्द्दृग्गोचरे दृग्देशे न पतेयं यस्यकस्यचिद्हग्विषयो न भवेयमित्यर्थः ।
तावदस्मिन्नेव, समरे रणरङ्गे, तनुं त्यजामि विसृजामीति, सन्ना सन्नद्धो भूत्वा,
पुरश्चलन् सञ्चरन् । शचीपतिरिन्द्रः, अन्तरिक्ष गच्छति भजतीत्यन्तरिक्षगा तां
वाणीं वाचमशृणोत् शुश्राव। 'श्रु श्रवणे' 2 इस्यस्य लङ् । भीतं भक्तं भगवान् हरिः
कदा नोद्धरतीति भावः । वागानुपूर्वीप्रकारमाह ॥ अहो इति ॥ हे शक्र ! इन्द्र
ते तब, धियो मान्द्यं कार्याकार्यग्रहणाचातुर्यम् अहो विस्मयावहम्। बृहस्पतिपरिशि-
क्षितस्यापि तव कथं प्रमाद इति भावः । अग्रे उत्तरकाले, अन्यथा प्रकारान्तरेण
भाव्यं भवितव्यं, वर्तिष्यते । त्वदीयैस्सह तवैवामृतलाभादिकं भवेदिति भावः ।
अस्माद्रणात्कलहात् । ल्यब्लोपे कर्मणि पञ्चमी । रणं विहायेत्यर्थः । अन्तर्धेहि
'अदर्शनं भज । निगूढस्सन्नपस रेत्यर्थः । मद्विरं मदुदीरितां वाचं अन्तर्मनसि,
 
(
 
2, 'श्रु श्रवणे ' - इति भौवादिकः । अथाजन्ताः परस्मैपदिनः' इत्यारभ्य
पठितेषु षट्चत्वारिंशद्धातुषु अयमेकचत्वारिंशः धातुः ॥
 
-
 
3. ' ल्यब्लोपे कर्मण्यधिकरणे च' - इति वार्तिकेन
मारुत्य प्रेक्षते' इतिवत् ॥
 
6
 
'प्रासादात्-प्रासाद-
4. अन्तर् शब्दस्योपसर्गसंज्ञा 'श्रदन्तरोरुपसर्गत्वं वक्तव्यम्' इत्यनु-
शासनात् । तदा अदर्शनं भजेत्यर्थः । अन्तः = मनसि इत्यव्ययत्वे - धेहि - धान्
भातोर्लोटि मध्यमैकनचनस्य निक्षिपेत्यर्थः इति विवेक्तव्यम् ॥
 
-