This page has been fully proofread twice.

धावद्दैवतयोधयूथपदवीसंरोधकौतूहल-
क्रामड्डामरघोरवैरिपरिषन्नासीरसीमोद्भवैः ।
भेरीभाङ्करणैरमर्त्यनगरीसंवर्तमौहूतिकैः
सम्भ्रान्ताः प्रतिपेदिरे युधि निवृत्ताशा दिगीशा दिशः ॥४१॥
 
वल्मीकेष्वहयो वसन्ति मुनयो, घोराः समीराशनाः
कान्तारेषु च कन्दरेषु लवणे सिन्धौ क्व वा सुस्थितिः ।
 
[Commentary]
 
पदव्यः, तासां, संरोधे निरोधे, कौतूहलेन कौतुकेन । 'कौतूहलं कौतुकं च' इत्यमरः । क्रामन्तः प्रसरन्तः, ये डमरा एव डामराः विप्लवाः । [^१]'प्रज्ञादित्वात्स्वार्थेऽण्प्रत्ययः उपद्रवा इत्यर्थः । यद्वा डामराः भयहेतुसिंहनादादयो ध्वनिविशेषा इत्यर्थः । 'मुष्टिबन्धस्तु सङ्गाहो डिम्बे डमरविप्लवौ' इत्यमरः । डिम्बशब्दार्थमाह रभसः -- 'भयध्वनौ पुल्कसेऽपि डिम्बः प्लीहनि विप्लव' इति । डामरशब्दः अशस्त्रकलहस्य नामेति क्षीरस्वामी । 'ईतिस्स्यादतिवृष्ट्यादिषट्के डिम्बप्रवासयोः' इति भास्करः । एवं कौतूहलेन क्रामन्तः प्रसरन्तः, ये डामराः सिंहनादाः, तैर्घोरं भीमं, यद्वैरिपरिषदः शत्रुसङ्घस्य, नासीरसीम, तत्रोद्भटैः निर्निरोधैः दुश्श्रवैरिति वार्थः । पाठान्तरे उद्भवैरुत्पन्नैरित्यर्थः । अथवा क्रामन्ती सञ्चरन्ती या ढामरघोरवैरिपरिषदिति विशेषणविशेष्यभावः । अमर्त्यनगर्याः अमरावत्याः संवर्तस्य प्रळयस्य, मौहूर्तिकैः मुहूर्तविद्भिः दैवज्ञैरित्यर्थः । 'स्युर्मौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका अपि' इत्यमरः । आवेदकैरिति यावत् । भेरीणां भाङ्करणैः,
ध्वनिभिरित्यर्थः । सम्भ्रान्ताः अनवस्थिताः, चपला इति यावत् । अत एव, निवृत्ता प्रगता आशा जयेच्छा येषां ते, तथाविधाः, दिगीशाः दिक्पतयः, अग्न्यादयः, दिशः प्रपेदिरे प्रापुरित्यर्थः । योद्धुमसमर्था जिजीविषवः के वा न पलायन्त इति भावः । दिक्पतिष्वेको वायुस्सार्वदेशिकशत्रुकतया अन्यत्र
 
[^१] 'प्रज्ञादिभ्यश्च' (पा. सू. ५.४.३८) प्रजानातीति=प्रज्ञः 'इगुपधज्ञाप्रीकिरः कः' (पा. सू. ३.१.१३५) इति कः । ततः स्वार्थेऽण्, प्रज्ञ एव प्राज्ञः । प्राज्ञी स्त्री । देवता एव, दैवतः बन्धुरेव = बान्धवः, मरुत् एव = मारुतः, रक्ष एव = राक्षसः, वय एव = वायसः, पिशाच एव = पैशाचः, मन एव = मानसम् इत्यादिवदिति भावः ॥ 'प्रज्ञाश्रद्धार्चाभ्यो णः' (पा. सू. ५.२.१०१) इति तद्धितान्तात् टापि प्राज्ञा, प्राज्ञो व्याकरणम् इति रूपम् ॥