This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
 
धावद्दैवतयोधयूथपदवी संरोध कौतूहल-
क्रामड्डामरघोरखैरिपरिषन्नासीरसीमोद्भवैः ।
भेरीभाङ्करणैरमर्त्यनगरीसंवर्तमौहूतिकैः
 
सम्भ्रान्ताः प्रतिपेदिरे युधि निवृत्ताशा दिगीशा दिशः ॥४१॥
वल्मीकेष्वहयो वसन्ति मुनयो, घोराः समीराशनाः
कान्तारेषु च कन्दरेषु लवणे सिन्धौ क्क वा सुस्थितिः ।
 
७४
 
पदव्यः, तासां, संरोधे निरोधे, कौतूहलेन कौतुकेन । 'कौतूहलं कौतुकं च'
इत्यमरः । क्रामन्त: प्रसरन्त:, ये डमरा एव डामराः विप्लवाः । 'प्रज्ञादित्वात्स्वार्थेऽण्
प्रत्ययः उपद्रवा इत्यर्थः । यद्वा डामरा : भयहेतुसिंहनादादयो ध्वनिविशेषा
इत्यर्थ: । 'मुष्टिबन्धस्तु सङ्गाहो डिम्बे डमरविप्लवौ' इत्यमरः । डिम्ब -
शब्दार्थमाह रभसः – 'भयध्वनौ पुल्कसेऽपि डिम्ब प्लीहनि विप्लव' इति ।
डामरशब्द: अशस्त्रकलहस्य नामेति क्षीरस्वामी । 'ईतिस्स्यादतिवृष्टयादिषट्के
डिम्बप्रवासयोः' इति भास्करः । एवं कौतूहलेन क्रामन्तः प्रसरन्तः, ये डामराः
सिंहनादाः, तैर्घोरं भीम, यद्वैरिपरिषदः शत्रुसङ्घस्य, नासीरसीम, तत्रोद्भटैः निर्निरोघैः
दुश्श्रवैरिति वार्थः । पाठान्तरे उद्भवैरुत्पन्नैरित्यर्थः । अथवा क्रामन्ती सञ्चरन्ती या
ढामरघोरवैरिपरिषदिति विशेषण विशेष्यभावः । अमर्त्यनगर्या: अमरावत्याः
संवर्तस्य प्रळयस्य, मौहूर्तिकै: मुहूर्त विद्भिः दैवज्ञैरित्यर्थः । 'स्युहूर्तिकमौहूर्तज्ञानि-
कार्तान्तिका अपि' इत्यमरः । आवेदकैरिति यावत् । मेरीणां भाकरणै:,
ध्वनिभिरित्यर्थः । सम्भ्रान्ता: अनवस्थिताः, चपला इति यावत् । अत एव,
निवृत्ता प्रगता आशा जयेच्छा येषां ते, तथाविधाः, दिगीशा: दिक्पतयः,
अग्नयादयः, दिशः प्रपेदिरे प्रापुरित्यर्थः । योद्धुमसमर्था जिजीविषवः के वा न
पलायन्त इति भावः । दिक्पतिष्वेको वायुस्सार्वदेशिकशत्रुकतया अन्यत्र
 
प्रजानातीति = प्रज्ञः
 
'इगुपधज्ञा-
9
 
1. 'प्रज्ञादिभ्यश्च' (पा. सू. 5-4-38)
प्रीकिर: क:' (पा. सू. 3-1-135) इति कः । ततः स्वार्थेऽण् प्रज्ञ एव प्राज्ञः ।
प्राज्ञी स्त्री । देवता एव, दैवत: बन्धुरेव - बान्धवः, मरुत् एव = मारुतः, रक्ष एव - राक्षसः
वय_एव = घामसः पिशाच एव = पैशाच:, मन एव = मानसम् इत्यादिवदिति भावः ॥
'प्रज्ञाश्रद्धार्चाभ्यो ण: ' (पा. सू. 5-2-101) इति तद्धितान्तात् टापि प्राज्ञा, प्राज्ञो व्या-
करणम् इति रूपम् ॥
 
-