2022-08-26 13:54:35 by epicfaace

This page has not been fully proofread.

म. १०. अ. ११. सू. १२०]
 
अष्टमोऽष्टकः
 
७८३
 
एवं च
 
Vआबभूव आजाता सोऽपि किल यदि Vवा दधे धारयति यदि Vवा न धारयति ।
को नाम अन्यो धर्तुं शक्नुयात् । यदि धारयेदीश्वर एव धारयेज्ञान्य इत्यर्थः । एतेन कार्य
धारयितृत्वप्रतिपादनेन ब्रह्मण उपादानकारणस्वमुक्तं भवति । तथा च पारमार्ष सूत्रं -' प्रकृतिश्च
प्रतिज्ञादृष्टान्तानुपरोधात् ' ( वे. सू. १. ४.२३ ) इति । यद्वा । अनेनार्धर्चेन पूर्वोक्तं सृष्टेर्दुर्ज्ञानस्वमेव
द्रढयति । को वेदेश्यनुवर्तते । इयं विविधा सृष्टिः यत आबभूव आ समन्तादजाययेति को वेद ।
न कोऽपि । नास्त्येव जगतो? जन्म न कदाचिदनीदृशं जगदिति बहवो भ्रान्ता भवन्स्यपि । यतः ।
' जनिकर्तुः प्रकृतिः ' (पा. सू. १.४.३० ) इत्यपादानसंज्ञायां पञ्चम्यास्तसिलू । यस्मात् परमाश्मन
उपादानभूतादाबभूत्र तं परमात्मानं को वेद । न कोऽपि । प्रकृतितः परमाणुभ्यो वा जगज्जन्मेति
हि बहवो भ्रान्ताः । तथा स एवोपादानभूतः परमात्मा स्वयमेव निमित्तभूतोऽपि सन् यदि
वा दधे विदधे इदं जगत् ससर्ज यदि वा न ससर्ज । असंदिग्धे संदिग्धवचन मे तच्छास्त्राणि चेप्रमाणं
स्युरिति यथा । स एव विदधे । नं को वेद । अजानन्तोऽपि बहवो जडात् प्रधानाद कर्तृकमेवेदं जगत्
स्वयमजायतेति विपरीतं प्रतिपन्न। विदधनो' विधानमजानन्तोऽपि । स एव उपादानभूत इत्यपि को
वेद । न कोऽपि । उदानादन्यः तटस्थ एवेश्वरी विदधे इति हि बहवः प्रतिपन्नाः । देवा अपि यक्ष
जानन्ति नदवीचीनानामेव तत्परिज्ञाने कैव कथेत्यर्थः । यद्येवं जगत्सृष्टिरत्यन्तदुरवबोधा न तर्हि सा
प्रमाणपद्धनिमयास्त इत्याशक्य तत्सद्भाव ईश्वरमेव प्रमाणयति यो अस्येति । अस्य भूतभौतिका-
त्मकम्य जगतः Vयः अध्यक्षः ईश्वरः परमे उत्कृष्टे सत्यभूते व्योमन् व्योमन्याकाशे आकाश-
वन्निर्मले स्वप्रकाशे । यहा ॥ अवतेस्तर्पणार्थात् ' अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । 'नेड्वशि
कृति ' इतीप्रतिषेधः ।' ज्वरस्वर" इत्यादिना वकारोपधयोः ऊट् । सप्तम्या लुक् न डिसंबुद्धयोः '
इति नलोपप्रतिषेधः ॥ व्योमनि विशेषेण तृप्तें । निरतिशयानन्दस्वरूपे इत्यर्थः । यद्वा । अवति-
र्गस्यर्थः । व्योमनि विशेषेण गते व्याप्ते । देशकालवस्तुभिरपरिच्छिन्न इत्यर्थः । अथवा अवति-
ज्ञांनाः । व्योमनि विशेषेण ज्ञातरि विशिष्टज्ञानात्मनि । ईदृशे स्वात्मनि प्रतिष्ठितः । श्रूयते हि
सनतकुमारनारयोः संवादे – ' स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि ' (छा. उ. ७.२४.१ )
इति । ईदृशो यः परमेश्वरः सो अङ्ग । अङ्गेति प्रसिद्ध । सांऽपि नाम "वेद जानाति । यदि Vवा
न Vवेद न जानाति । को नाम अन्यो जानीयात् । सर्वज्ञ ईश्वर एव तां सृष्टिं जानीयात् नान्य
इत्यर्थः ॥
 
6
 
6
 
यो यज्ञः ' इति सतर्च द्वितीयं सूकं प्रजापतिपुत्रस्य यज्ञाव्यस्यार्पम् । आद्या जगती शिष्टा-
स्त्रिष्टुभः । अत्रापि यज्ञादीनां के पांच्चिद्भावानां सृष्टिः प्रतिपाद्यते । अतः स्रष्टव्यत्वेन प्रधानभूतो योऽर्थः
सैत्र देवता । तस्कर्ता प्रजापतिरेव देवता । तथा चानुकान्तं- 'यो यज्ञो यज्ञः प्राजापत्यो
जगत्याचा' इति । गतो विनियोगः ॥
 
यो य॒ज्ञो वि॒श्वत॒स्तन्तु॑भिस्त॒त एक॑शतं देवक॒मे॑भि॒राय॑तः ।
 
इमे व॑यन्ति पि॒तरो॒ य जा॑य॒युः प्र व॒याप॑ व॒येत्या॑सते त॒ते ॥ १ ॥
यः । य॒ज्ञः । वि॒श्वत॑ः । तन्तु॑ऽभिः । त॒तः । एक॑ऽशतम् । देव॒ऽक॒मे॑मि॑ः । आऽयंतः ।
इ॒मे । व॒यन्ति॒। पि॒तर॑ः। ये । आ॒ऽय॒युः । प्र । वय॒ । अप॑ । त्र॒य॒ । इति॑ । आ॒स॒ते । तते ॥ १॥
 
१. ग-त-भ - ' यतः ' नास्ति । २. त-भ- ' जगतो ' नास्ति । ३. त-भ- उपादानाद्वभूव । ४. त१.
२.३.६.७.८-भ२॰४,८-विदधानोपि विदधानं तं जानतोपि; त४.५ - विदधतोपि दधानं जानंतोपि; भ७-
विदघेतं जातं जानंतोपि । ५. ग-भ२.४.८ - तृप्ते नित्यतृप्ते । ६. गत १.२.३.६.८-४२.४.८- तद्वत् कर्ता ।