2022-08-26 13:54:38 by epicfaace
This page has not been fully proofread.
७८२
ऋग्वेदः
[ अ. ८. अ. ७.
सर्गस्य शीघ्रग्यापनेन' तस्य क्रमस्य दुर्लक्षणस्वादेतेषु त्रिषु स्थानेषु प्राथम्यं कुत्रेति विचार्यते । एवं
नाम शीघ्रं सर्वतो दिनु सर्गो निष्पन्न इत्यर्थः । एतदेव विभजते । सृष्टेषु कार्येषु मध्ये केचिद्भावाः
रेतोधाः रेतसो बीजभूतस्य कर्मणो विधातारः कर्तारो भोक्तारश्च जीवाः आसन् अन्ये भावाः
महिमानः । स्वार्थिक इमनिच् । महान्तो वियदादयो भोग्याः आसन् । एवं मायासहितः परमेश्वरः
सर्व जगत् सृष्ट्वा स्वयं चानुप्रविश्य भोक्तृभोग्यादिरूपेण विभागं कृतवानित्यर्थः । अयमेवार्थस्तैसि -
रीयके 'तरसृष्ट्वा तदेवानुप्राविशत् ' ( तै. आ. ८. ६ ) इत्यारभ्य प्रतिपाद्यते । तत्र च भोक्तृभोग्ययो-
मंध्ये स्वधा । अन्ननामैतत् । भोग्यप्रपञ्चः अवस्तात् अवरो निकृष्ट आसीत् । प्रयतिः प्रयतिता
भोक्ता परस्तात् पर उत्कृष्ट आसीत् । भोग्यप्रपञ्चं भोक्तृप्रपञ्चस्य शेषभूतं कृतवा नित्यर्थः । ' विभाषा
परावराभ्याम्' (पा. सू. ५. ३. २९ ) इति प्रथमार्थे अस्तातिः । 'अस्ताति च ' ( पा. सू. ५. ३०
४० ) इत्यवरशब्दस्यावादेशः । अवस्तादिति संहितायाम् ईपाअक्षादित्वात् प्रकृतिभावः ॥
को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑च॒त्कुत॒ आजा॑ता॒ कुत॑ इ॒यं विसृष्टिः ।
अ॒र्वाग्दे॒वा अ॒स्य वि॒सर्ज॑ने॒नाथा॒ को वे॑द॒ यत॑ आब॒भुव॑ ॥ ६ ॥
कः । अ॒द्धा । वेद॒ । कः । इ॒ह । प्र । वोच॒त् । कुत॑ः । आऽजा॑ता । कुत॑ः । इ॒यम् । विऽसृष्टिः ।
अ॒र्वा॑क् । दे॒वाः । अ॒स्य । वि॒ऽसनेन । अथ॑ । कः । वेद॒ । यत॑ः । आ॒ऽव॒भुव॑ ॥ ६ ॥
एवं भोक्तृभोग्यरूपेण सृष्टि: संग्रहेण प्रतिपादिता । 'एतावद्वा इदमन्नं चैवान्नादश्च सोम एवान-
मझिरनाद (श. बा. १ ४.२ १३) इतिवत् । अथेदानीं सा सृष्टिर्दुर्विज्ञानेति न विस्तरेणाभिहितेत्याह
को अद्वेति । कः पुरुष: अद्धा पारमार्थेन वेद जानाति । कः वा Vइह अस्मिल्लोके प्र Vवोचत्
प्रब्रूयात् । इयं दृश्यमाना विसृष्टिः विविधा भुतभौतिकभोक्तभोग्यादिरूपेण बहुप्रकारा सृष्टिः कुतः
कस्मादुपादान कारणात् । कुतः कस्माञ्च निमित्तकारणात् आजाता समन्ताजाता प्रादुर्भूता । एतदुभयं
सम्यक् को वेद को वा विस्तरेण वकुं शक्नुयादित्यर्थः । ननु देवाः अजानन्तः । सर्वज्ञास्ते ज्ञास्यन्ति
वक्तुं च शक्नुवन्तीत्यत आह अर्वागिति । देवाः च अस्य जगतो विसर्जनेन वियदादिभूतोत्पश्य-
नन्तरं विविधं यद्धांतिकं सर्जनं सृष्टिस्तेन अर्वाक् अर्वाचीनाः कृताः । भूतसृष्टेः पश्चाज्जाता इत्यर्थः ।
तथाविधास्ते कथं स्त्रोयत्तेः पूर्वकालीनां सृष्टि जानीयुः । अजानन्तो वा कथं प्रब्रूयुः । उक्तं दुर्वि-
ज्ञात्वं निगमयति । अथ एवं सति देवा अपि न जानन्ति किल । तद्व्यतिरिक्तः कः नाम
मनुष्यादिः Vवेद तज्जगत्कारणं जानाति ण्यतः कारणात् कृत्स्नं जगत् अबभूव अजायत ॥
इयं विसृ॑ष्ट॒र्यत॑ आब॒भूव॒ यदि॑ वा द॒धे यदि॑ वा॒ न ।
यो अ॒स्याध्य॑क्षः पर॒मे व्यो॑म॒न्त्सो अ॒ङ्ग वे॑द॒ यदि॑ वा॒ न वेद॑ ॥ ७ ॥
इ॒यम् । विऽसृष्टिः । यत॑ । आ॒ऽव॒भुव॑ । यदि॑ । वा॒ । दे॒वे । यदि॑ । वा । न ।
यः । अ॒स्य॒ । अधि॑ऽअक्षः । प॒र॒मे । विऽजो॑मन् । सः । अ॒ङ्ग । वे॒द॒ । यदि॑ । वा॒ । न । वेद॑ ॥७॥
उक्त प्रकारेण यथेदं जगत्सर्जनं दुर्विज्ञानं एवं सृष्टं तज्जगत् दुर्धरमपीत्याह इयमिति । यतः ६
उपादानभूतात् परमात्मनः Vइयं विसृष्टिः विविधा गिरिनदीसमुद्रादिरूपेण विचित्रा सृष्टिः
१. त४.५-३७- शीघ्रव्यापने । २. ग-भ- शक्ष्यंतीत्यत । ३. ग-त१.२.३.६.७.८भ-दुर्ज्ञानत्वं ।
४. त१.२.३.६.७.८-भ-' किल' नास्ति । ५. ग-त२.३.६.७.८ - आजायत । ६. त-भ- 'यतः' नास्ति ।