2022-08-26 14:52:51 by epicfaace
This page has not been fully proofread.
म. १०. अ. ११. सू. १२९] अष्टमोऽष्टकः
काम॒स्तदग्ने॒रे॒ सम॑वर्त॒ताधि॒ मन॑सो॒ रेतः॑ प्रथ॒मं यदासी॑त् ।
स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन् हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा ॥ ४ ॥
कार्म:
: । तत् । अप्रै । सम् । अ॒वर्तत॒ । अधि॑ । मन॑सः । रेत॑ः । प्र॒थ॒मम् । यत् । आसीत् ।
स॒तः । बन्धु॑म् । अस॑ति । निः । अ॒वि॒न्द॒न् । हृदि । प्र॒ति॒ऽइष्य॑ । क॒वय॑ । मनी॒त्रा ॥ ४ ॥
।
।
७८१
ननूक्तरीत्या यदीश्वरस्य पर्यालोचनं जगतः पुनरुत्पत्तों कारणं तदेव किंनियन्धनमित्यत आह
कामस्तदग्र इति । अग्रे अस्य विकारजातस्य सृष्टेः प्रागवस्थायां परमेश्वरस्य मनसि कामः सम-
वर्तत सभ्यगजायत । सिसृक्षा जातेत्यर्थः । ईश्वरस्य सिसृक्षा वा किंहेतुकेत्यत आह मनस इति ।
vमनसः अन्तःकरणस्थ संबन्धि वासनाशेषेण मायायां विलीनेऽन्तःकरणे समवेतम् । सामान्यापेक्ष-
मेकवचनम् । सर्वप्राण्यन्तःकरणेषु समवेतमित्यर्थः । एतेनात्मनो गुणाधारत्वं प्रत्याख्यातम् । तादृशं
रेतः भाविनः प्रपञ्चस्य बीजभूतं प्रथमम् अतीते कल्पे प्राणिभिः कृतं पुण्यात्मकं कर्म यत् यतः
कारणात् सृष्टिसमये 'आसीत् अभवत् । भूष्णु वर्धिष्ण्वजायत परिपक्कं सत् फलोन्मुखमासीदित्यर्थः ।
तत्ततो हेतोः फलप्रदस्य सर्वसाक्षिणः कर्माध्यक्षस्य परमेश्वरस्य मनसि सिसृक्षा अजायतेत्यर्थः ।
तस्यां च जातायां स्रव्यं पर्यालोच्य ततः सर्वं जगत् सृजति । तथा चाम्नायते- 'सोऽकामयत बहुः
स्यां प्रजायेयेति म तपोऽतयत स तपस्तस्वेदं सर्वमसृजत यदिदं किंच' ( तै. आ. ८. ६) इति
श्रुतिः । आत्मनेत्थमवगभितेऽर्थं विद्वदनुभवमप्यनुग्राहकत्वेन प्रमाणयति सन इति । सतः सवेन
इदानीमनुभूयमानस्य सर्वस्य जगतः Vबन्धुं धन्धकं हेतुभूतं कल्पान्तरे प्राण्यनुष्टितं कर्मसमूहं कवयः
क्रान्तदर्शना अतीतानागतवर्तमानाभिज्ञा योगिनः हृदि हृदये निरुद्धया मनीपा मनीषया बुद्धया ।
'सुपां सुलुक्" इति तृतीयाया लुकू । प्रतीय विचार्य । 'अन्येषामपि " इति मांहितिको दीर्घः ।
असति सद्विलक्षणेऽव्याकृते कारणे निरविन्दन् निष्कृप्यालभन्त । विविच्याजानन्नित्यर्थः ॥
(
V
ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम॒धः स्वदा॒सी३दु॒परि॑ स्विदासी३त् ।
रे॒तो॒धा आ॑सन्महि॒मान॑ आसन्त्स्व॒धा अ॒वस्ता॒त्प्रय॑तिः प॒रस्ता॑त् ॥ ५ ॥
ति॒रश्चीन॑ः। विऽत॑तः। र॒श्मिः । एषाम् । अ॒नः । स्त्रि॒ित् । आ॒सी३त् । उ॒परि॑ ।स्त्रि॒त् । आ॒सी॑३ त् ।
रे॒त॒ऽधाः । आ॒मन् । म॒हमान॑ः । आम॒न् । स्व॒धा । अ॒वस्ता॑त् । प्रऽय॑तिः । पु॒रस्ता॑त् ॥५॥
एवमविद्या कामकर्माणि मृर्हेतुत्वेनानि । अधुना तेषां स्वकार्यंजनने शैध्यं प्रतिपाद्यते ।
येयं नासदासीदित्यविद्या प्रतिपादिता यश्च कामस्तदमे इति कामो मनसो रेतः प्रथमं यदासीदिति
यत्कर्म Vएषाम् अविद्याकामकर्मणां वियदादिभूतजातानि सृजतां रश्मिः रश्मिसदृशो यथा सूर्यरश्मिः
उदयानन्तरं निमेपमात्रेण युगपत् सर्वं जगत् व्याप्नोति तथा शीघ्रं सर्वत्र व्याप्नुवन् यः कार्यवर्ग:
vविततः विस्तृतः आसीत् । स्त्रिदामीत् इति वक्ष्यमाणमत्रापि संबध्यते । 'विचार्यमाणानाम् '
(पा. सू. ८. २.९७ ) इति प्लुतः । तत्रोदात्त इत्यनुवृत्तेः स चोदात्त: । स्त्रित् इति वितर्के ।
स कार्यवर्ग: प्रथमतः किं तिरश्चीनः तिथंगवस्थितो मध्ये स्थित आसीत् किंवा अधः अधस्तात्
आसीत् । आहोस्वित् Vउपरि उपरिष्टात् किमासीत् । 'उपरि स्त्रिढ़ासीदिति च ' (पा. सू. ८.२.
१०२ ) इत्यनुदात्त: प्लुतः । आत्मन आकाशः संभूत आकाशाद्वायुर्वायोरभिः ' ( तै. आ. ८. १ )
इत्यादिकया पञ्चमीश्रुत्या तत उद्गातारं ततो होतारमितिवत् क्रमप्रतिपत्तौ सत्यामपि विद्युत्प्रकाशवत्
4
१. त भ - तदेव वा । २. भ२ - पुण्यापुण्यात्मकं ।
काम॒स्तदग्