2022-08-26 13:54:43 by epicfaace
This page has not been fully proofread.
ऋग्वेदः
तम॑ आस॒त्तम॑सा गूळ्हमये॑ऽप्रके॒तं स॑ल॒लं सर्वेमा इ॒दम् ।
तु॒च्छयेना॒भ्वप॑हि॑ितं॒ यदात्तप॑स॒स्तन्म॑हि॒नाजा॑य॒तैक॑म् ॥ ३ ॥
तर्मः । आत् । तम॑सा । गूळ्हम्
७८०
[ अ. ८ अ. ७. व. १७
।
।
अप्रै । अप्र॒ऽके॒तम् । स॒थि॒लम् । सर्व॑म् । आ॒ः । इ॒दम्
तु॒च्छयेन॑ । आ॒भु । अपि॑ऽहितम् । यत् । आसीत् ।
तप॑सः । तत् । म॒हि॒ना । अ॒यत । एक॑म् ॥ ३ ॥
ननूकप्रकारेण यदि पूर्वमिदं जगन्नासीत् कथं तर्हि तस्य जन्म । जायमानस्य जनिक्रियायां
कर्तृत्वेन कारकत्वात् कारकं च कारणावान्तरविशेष इति कारकस्य सतो नियतपूर्वक्षणवर्तित्वस्य
अवश्यंभावात् । अर्थतहोपपरिजिहीर्षया जनिक्रियायाः प्रागपि तद्विद्यत इत्युच्यते । कथं तस्य जन्म ।
अत आह तमसा गूळ्हम इति । अग्रे सृष्टेः प्राक् प्रलयदशायां भूतभौतिकं सर्वं जगत् तमसा
गृहम् । यथा नैशं तमः सर्वपदार्थजातमावृणोति तद्वत् । आत्मतस्वस्थावरकत्वान्मायापरसंज्ञं
भावरूपाज्ञानमत्र तम इत्युच्यते । तेन तमसा निगृढ़ संवृतं कारणभूतेन तेनाच्छादितं भवति । आच्छा-
दकात् तस्मात्तमसो नामरूपाभ्यां यदाविभवनं तदेव तस्थ जन्मेत्युच्यते । एतेन कारणावस्थायाम.
सदेव कार्यमुत्पद्यते इत्यसद्वादिनोऽसत्कार्यवादिनो ये मन्यन्ते ते प्रत्याख्याताः । ननु कारणे तममि
तज्जगदात्मकं कार्यं विद्यने चेत् कथं नासीद्वज इत्यादि निषेधः । तत्राह Vतम आसीन इति । तमो
भावरूपाज्ञानं मूलकारणम् । तद्रूपता तदात्मनाम् । यतः सर्वं जगत् प्राक् तम आसीदतो निषिध्यत
इत्यर्थः । नन्त्रावरकस्वादावरकं तमः कर्तृ आवार्यस्वाजगत्कर्म । कथं तयोः कर्मकस्तादात्म्यम् ।
तत्राह अप्रकेतमिति । अप्रतम् अप्रज्ञायमानम् । अयमर्थः । यद्यपि जगतस्तममश्च कर्मकर्तृभावो
यौक्तिको विद्यते तथापि व्यवहारदशायामिव तस्यां दशायां नामरूपाभ्यां विस्पष्टं न ज्ञायत इति
तादात्म्यवर्णनम् । अत एव मनुना स्मर्थते -' आसीदिदं तमोभूनमप्रज्ञातमलक्षणम् । अप्रतर्क्यम-
निर्देश्यं प्रसुप्तमिव सर्वतः ' (मनु. १. ५ ) इति । कुतो वा न प्रज्ञायते तत्राह । सलिलम् । पल
गताँ '। औणादिक इलच् । इदं दृश्यमानं सर्व जगत् सलिलं कारणेन संगतमविभागापन्नम् आः
आसीत् । अस्तेर्लंङि तिपि ' बहुलं छन्दसि ' इतीडभावे 'हळूडल्याब्भ्यः' इति तिलोपे ' तिप्यनस्तेः'
(पा. सू. ८. २. ७३ ) इति पर्युदासाहकाराभावः । यहा सलिलमिति लुप्तोपमम् । सलिलमिव ।
यथा क्षीरेणाविभागापनं नीरं दुर्विज्ञानं तथा तमसाविभागापनं जगन्न शक्यविज्ञानमित्यर्थः । ननु
विविध विचित्ररूप भूयसः प्रपञ्चस्य कथमतितुच्छेन तमसा क्षीरेण नीरस्येवाभिभवः । तथा तमोऽपि
क्षीरवद्वलवदिस्येवोच्यते । तर्हि दुर्बलस्य जगतः सर्गसमयेऽपि नोद्भवसंभव इत्यत आह तुच्छथेन
इति । आ समन्ताद्भवतीति आभु तुच्छयेन । छान्दसो यकारोपजनः । तुच्छेन तुच्छकल्पनेन
सदसद्विलक्षणेन भावरूपाज्ञानेन अपिहितं छादितम् आसीत् । दधातेः कर्मणि निष्ठा । दधातेहिं ।
' गतिरनन्तरः ' इति गतेः प्रकृतिस्वरत्वम् । Vएकम् एकीभूतं कारणेन तमसाविभागतां प्राप्तमपि
तरकार्यजातं तपसः स्रष्टव्यपर्यालोचनरूपस्य महिना माहात्म्येन अजायत उत्पन्नम्। तपसः
स्रष्टव्यपर्यालोचनरूपत्वं चाम्यवाम्नायते –' यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः ( मु. उ.
१. १. ९ ) इति ॥
"
9
▾
१. त इत्युच्येत । २. त४.५. भ२ - इत्यादिना तन्निषेधः । ३. त-भ२.४.८ - विविधविचित्र भूयसः ।
४. त१.२.६.७-भ५-यत्पर्यालोचनरूपत्वं परमेश्वस्य तपः तस्य महिना महिम्ना महत्वेन । छांदसो वर्ण-
लोपः । अजायत तस्मात्तमोरूपात् कारणात् पुनः प्रादुरासीत् । परमेश्वरस्य तपसः स्रष्टव्यपर्यालोचन-
रूपवं; त३.४.५.८-भ२.४.८ - यत् पर्यालोचनरूपत्वं ।