2022-08-26 13:54:49 by epicfaace

This page has not been fully proofread.

७७८
 
ऋग्वेदः
 
[ अ. ८. अ. ६. व. ६
 
"
 
तस्याः पारमार्थिकसरवाभावात् । अथ व्यावहारिकसतां पृथिव्यादीनां भावानां विद्यमानत्वात्
कथं नो सदिति निषेधः । तत्राह । नासीदज इत्यादि । लोका रजांस्युच्यन्ते' (निरु. ४. १९ )
इति यास्कः । अत्र च सामान्यापेक्ष मेकवचनम् । व्योम्नो वक्ष्य माणस्वात्तस्याघस्तनाः पातालादयः
पृथिव्यन्ता नासन्नित्यर्थः । तथा Vव्योम अन्तरिक्षं तदपि नो नैवासीत् । पर इति सकारान्तं
परस्तादित्यर्थे वर्तते । परशब्दाच्छान्दसोऽस्तातेरर्थेऽसिप्रत्ययः । परः व्योम्नः परस्तादुपरिदेशे
धुलोकप्रभृतिसत्यलोकान्तं यत् अस्ति तदपि नासीदिस्यर्थ: । अनेन चतुर्दशभुवनगर्भ ब्रह्माण्ड
स्वरूपेण निषिद्धं भवति । अथ तदावरकत्वेन पुराणेषु प्रसिद्धानि यानि वियदादिभूतानि तेपामव-
स्थानप्रदेशं तदावरणनिमित्तं चाक्षेपमुखेन क्रमेण निषेधयति किमावरीवरिति । किम् आवरणीयं
तस्त्रमावरकभूतजातम् आवरीव: । अध्यन्तमा वृणुयान् । आचार्याभावात् तदावरकमपि नासी-
दित्यर्थः ॥ वृणोतेर्यङ्लुगन्ताच्छान्दसे लङि तिपि रूपमेतत् ॥ यद्वा । किमिति प्रथमैव । किं तत्व-
मावरकमावृणुयात् । आब्रियमाणवत्तदपि स्वरूपेण नासीदित्यर्थः । आवृण्वत् तत्तश्वं कुह कुत्र
देशेऽवस्थायावृणोति । आधारभूतस्तादृशो देशोऽपि नासीदित्यर्थः ॥ किंशब्दान् सप्तम्यर्थे हप्रत्ययः ।
'कु तिहो: ' (पा. सू. ७.२.१०४ ) इति प्रकृतेः क्वादेशः ॥ कस्य Vशर्मन् कस्य वा भोक्र्जीवस्य
शर्मणि' सुखदुःखसाक्षात्कारलक्षणे भोगे निमित्तभूते सनि तदावरकं तस्वमावृणुयात् । जीवा-
नामुपभोगार्था हि सृष्टिः । तस्यां हि सत्यां ब्रह्माण्डस्य भूतैरावरणं प्रलयदशायां च भोकारो जीवा
उपाधि विलयात् प्रलीना इति कस्य कश्चिदपि भोक्तान संभवतीत्यावरणस्य निमित्ताभावादपि
तन्न घटत इत्यर्थः । एतेन भोग्यप्रपञ्चवत् भोक्तृप्रपञ्चोऽपि तदानीं नासीदिव्युतं भवति ॥ किंशब्दा-
दुत्तरस्य सः 'सावेकाचः" इति प्राप्तस्योदात्तस्त्रस्य' 'न गोश्वन्साववर्ण" इति प्रतिषेधः । 'सुपां
सुलुक्" इति शर्मणः सप्तम्या लुक् । यद्यपि सावरणस्य ब्रह्माण्डस्य निषेधेन तदन्तर्गतमप्सत्वमपि
निराकृतं तथापि ' आपो वा इदमग्रे सलिलमासीत् ' ( तै. सं. ७. १. ५. १ ) इति श्रुत्या कश्चिदपां
सद्भावमाशङ्केत । तं प्रत्याचष्टे अम्भः किमासीत् इति । गहनं दुष्प्रवेशं गभीरं दुरवस्थानमध्य-
गाधम् ईडशम् Vअम्भः किमासीत् । तदपि नैवासीदित्यर्थः । श्रुतिस्ववान्तरप्रलयविषया ॥
 
6
 
न मृत्युरा॑सीद॒मृतं॒ न तहि॒ न राज्या अह॑ आसीत्प्रके॒तः ।
आनी॑दवा॒तं स्व॒धया॒ तदे॑षां॒ तस्मा॑द्ध॒न्यन्न प॒रः किं च॒नास॑ ॥ २ ॥
 
न । मृत्युः । आ॒स॒त् । अ॒मृत॑म् । न । तहि॑ । न । रा॒त्र्या॑ः । अह॑ । आ॒सी॒त् । प्र॒ऽके॒तः ।
आनी॑त् । अ॒वा॒तम् । स्व॒धया॑ । तत् । एक॑म् ।
 
तस्मा॑त् । ह॒ । अ॒न्यत् । न । परः । किम् । च॒न । आ॒स॒ ॥ २ ॥
 
ननुक्तस्य प्रतिसंहारस्य संहर्त्रपेक्षत्वात् स एव संहर्ता मृत्युर्विद्यत इत्यत आह न मृत्यु-
रासीत् इति । ननु यदि स नासीत् तर्हि तदभावकृतम् अमृतम् अमरणं प्राणिनामवस्थानं तदानीमपि
१. त - • सत्त्वाभावात् इति तु न प्रलयदशाया एव वर्णनीयत्वेन तदुपादानौचित्यात् तदानीमपि
तत्सत्वेन तदबाधात् ।
२. त१. ३ - भावानी तदामि; त७-भावानां तदपि । ३. ग-त१.२.३.६.७.८.
भ-तदात्ररणत्वेन; त४.५ - तदावरत्वेन । ४. त२.७-भ२.४.८-तद्रक्षकमपि; त३.८ - भ५ - तत्रक्षकमपि;
त६ - ततक्षकमपि । ५. त१.३.७-भ२.८-मु शर्मणि सुखे । ६. ग-त१.२.३.६.७.८-भ-मु- प्रविलीना ।
७. ग- कस्यचिदपि भागो; त१.७-३२.४.७.८ कस्यचिदपि भोगो; त२.३.६.८ - कांस्यंचिदपि भोगो ।
८. ग. त४. ५० भ२ प्राप्तस्योदात्तस्य; त१.२.३.६.७.८-भ-मु प्राप्तस्य । ९. त१.२.६.७-४२.८- मप्तत्व-
मपि; त४-°महस्वमपि त५- 'माप्राप्तत्वमपि; त८-भर- मतस्वमपि; भ४.७-मसत्वमपि ।