2022-08-26 14:49:55 by epicfaace

This page has not been fully proofread.

म. १०. अ. ११. सू. १२९]
 
अष्टमोऽष्टकः
 
यमेर्लेट्यडागमः । ' सिब्बहुलम् ' इति सिप् ॥ हे हर्यश्व हरी अश्वौ यस्य तादृश हे Vइन्द्र सः एवं
'नः अस्माकं प्रजायै । द्वितीयार्थे चतुर्थी । प्रजां पुत्रपौत्रादिकां मुख्य सुखय । नः अस्मान् मा
परीरिषः मा हिंसीः । Vमा च परा दाः । परादानं परित्यागः । मा परित्याक्षीरित्यर्थः ॥
 
७७७
 
ये न॑ स॒पत्वा॒ अप॒ ते भ॑वन्त्वन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् ।
वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृशं मो॒ग्रं चेत्रमधिरा॒जम॑क्रन् ॥ ९ ॥
 
ये । नः॒ः । स॒ऽपत्ना॑ः । अप॑। ते । भ॒वन्तु । इ॒न्द्रा॒ग्निऽभ्या॑म् । अव॑ । ब॒धामहे॒ । तान् ।
वर्सत्रः
पः । रु॒द्राः । आदित्याः । उपरि॒ऽस्पृश॑म् । म । उ॒ग्रम् । चेत्ता॑रम् । अवि॒ऽरा॒जम् । अन्॥९॥
 

 
नः अस्माकं ये सपत्नाः शत्रवः ते अप भवन्तु अपगता भवन्तु । स्वस्थानादपगताः
प्रच्युता भवन्तु । Vतान् सपत्नान् इन्द्राग्निभ्यां हविर्भिः स्तुत्या च प्रसन्नाभ्यामनुगृहीता वयम् अव
Vबाधामहे निकृष्टतरं विनाशयामः । अपि च वसवो रुद्रा आदित्या: च मा माम् उपरिस्पृशम्
उन्नतपदस्य संस्प्रष्टारं सर्वेभ्यः श्रेष्ठम् अन् कुर्वन्तु । तथा Vउग्रम् उद्दूर्णबलं श्वेत्तारं चेतितारम् ॥
छान्दस इडभावः । सर्वस्य ज्ञातारम् अधिराजं सर्वेपामधीश्वरं च मां कुर्वन्तु ॥ करोते छान्दसे
लुङि ' मन्त्रे घस" इत्यादिना च्लेर्लुक् ॥ ॥ १६ ॥ ॥ १० ॥
 
6
 
एकादशेऽनुवाके त्रयोविंशतिसंख्याकानि सूतानि । तत्र नासदासीत् इति सप्तचं प्रथमं
सूक्तं त्रैष्टुभम्। परमेष्टी नाम प्रजापतिऋषिः । वियदादिभावानां सृष्टिस्थितिप्रल यादीनामत्र प्रति-
पाद्यत्वात् तेषां कर्ता परमात्मा देवता । तथा चानुकान्तं—' नामत्सप्त प्रजापतिः परमेष्टी भाववृत्तं
तु' इति । गतो विनियोगः ॥
 
नास॑दासी॒न्नो सदा॑सत्त॒दानीं॒ नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत् ।
किमाव॑रीवः॒ कुह॒ कस्य॒ शर्म॒न्नम्भः॒ किमा॑सी॒द्नह॑नं गभीभी॒रम् ॥ १ ॥
 
न । अस॑त् । आ॒सी॒त् । ननो॒ इति॑ । सत् । आस॒त् । त॒दानी॑म् ।
न । आ॒सी॒त् । रज॑ः । ननो॒ इति॑ । विऽऔम । प॒रः । यत् ।
 
किम् । आ । अवरीवरिति॑ । कुह॑ । कस्य॑ । शर्म॑न् । अम्भ॑ः । किम् । आसीत् । गह॑नम् । गभीरम् ॥ १ ॥
 
'तपसस्तम्महिनाजायतैकम्' इत्यादिनाग्रे सृष्टिः प्रतिपादयिष्यते । अधुना ततः प्रागवस्था
निरस्तसमस्तप्रपञ्चा या प्रलयावस्था सा निरूप्यते । तदानीं प्रलयदशायामवस्थितं यदस्य जगतो
मूलकारणं तत् असत् शशविषाणवनिरुपाख्यं न आसीत् । न हि तादृशात् कारणादस्य सतो
जगत उत्पत्तिः संभवति । तथा नो सत् नैव सदात्मवत् सश्वेन निर्वाच्यम् आसीत् । यद्यपि
सदसदात्मकं प्रत्येकं विलक्षणं भवति तथापि भावाभावयोः सहावस्थानमपि संभवति । कुतस्तयोः
तादात्म्यमिति उभयविलक्षणम निर्वाच्य मेवासीदिव्यर्थः । ननु नो सदिति पारमार्थिकसरवस्य निषेधः।
तर्यात्मनोऽप्यनिर्वाच्यत्वप्रसङ्गः । अथोच्येत । न । आनीदवातमिति तस्य सध्वमग्रे वक्ष्यते परिशेषा-
न्मायाया एवात्र सवं निषिध्यत इति । एवमपि तदानीमिति विशेषणानर्थक्यं व्यवहारदशायामपि
 
१. त१.२.३.६.७.८ - भ - एषां । २. ग.त-भ२.५-सद्भावावस्थानमपि । ३. ग-त१.२.३.६.७.
८-भ- 'न' नास्ति ।