2024-01-01 23:03:53 by rhododaktylos
This page has been fully proofread once and needs a second look.
अष्टमोऽष्टकः
यमेर्लेट्यडागमः । ' सिब्बहुलम् ' इति सिप् ॥ हे हर्यश्व हरी अश्वौ यस्य तादृश हे Vइन्द्र सः एवं
'नः अस्माकं प्रजायै । द्वितीयार्थे चतुर्थी । प्रजां पुत्रपौत्रादिकां मुख्य सुखय । नः अस्मान् मा
परीरिषः मा हिंसीः । Vमा च परा दाः । परादानं परित्यागः । मा परित्याक्षीरित्यर्थः ॥
७७७
ये न॑ स॒पत्वा॒ अप॒ ते भ॑वन्त्वन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् ।
वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृशं मो॒ग्रं चेत्रमधिरा॒जम॑क्रन् ॥ ९ ॥
ये । नः॒ः । स॒ऽपत्ना॑ः । अप॑। ते । भ॒वन्तु । इ॒न्द्रा॒ग्निऽभ्या॑म् । अव॑ । ब॒धामहे॒ । तान् ।
वर्सत्रः
पः । रु॒द्राः । आदित्याः । उपरि॒ऽस्पृश॑म् । म । उ॒ग्रम् । चेत्ता॑रम् । अवि॒ऽरा॒जम् । अन्॥९॥
।
नः अस्माकं ये सपत्नाः शत्रवः ते अप भवन्तु अपगता भवन्तु । स्वस्थानादपगताः
प्रच्युता भवन्तु । Vतान् सपत्नान् इन्द्राग्निभ्यां हविर्भिः स्तुत्या च प्रसन्नाभ्यामनुगृहीता वयम् अव
Vबाधामहे निकृष्टतरं विनाशयामः । अपि च वसवो रुद्रा आदित्या: च मा माम् उपरिस्पृशम्
उन्नतपदस्य संस्प्रष्टारं सर्वेभ्यः श्रेष्ठम् अन् कुर्वन्तु । तथा Vउग्रम् उद्दूर्णबलं श्वेत्तारं चेतितारम् ॥
छान्दस इडभावः । सर्वस्य ज्ञातारम् अधिराजं सर्वेपामधीश्वरं च मां कुर्वन्तु ॥ करोते छान्दसे
लुङि ' मन्त्रे घस" इत्यादिना च्लेर्लुक् ॥ ॥ १६ ॥ ॥ १० ॥
6
सूक्तं त्रैष्टुभम्। परमेष्टी नाम प्रजापति
पाद्यत्वात् तेषां१ कर्ता परमात्मा देवता । तथा चानुकान्तं—' 'नामत्सप्त प्रजापतिः परमेष्टी भाववृत्तं
तु' इति । गतो विनियोगः ॥
नास॑दासी॒न्नो सदा॑सत्त॒दानीं॒ नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत् ।
किमाव॑रीवः॒ कुह॒ कस्य॒ शर्म॒न्नम्भः॒ किमा॑सी॒द्नह॑नं गभी॒रम् ॥ १ ॥
न । अस॑त् । आ॒सी॒त् ।
न । आ॒सी॒त् । र
किम् । आ ।
'तपसस्त
निरस्तसमस्तप्रपञ्चा या प्रलयावस्था सा निरूप्यते । Vतदानीं प्रलयदशायामवस्थितं यदस्य जगतो
मूलकारणं तत् Vअसत् शशविषाणवन्निरुपाख्यं
जगत उत्पत्तिः संभवति । तथा Vनो Vसत् नैव सदात्मवत् स
सदसदात्मकं प्रत्येकं विलक्षणं भवति तथापि भावाभावयोः सहावस्थानमपि२ संभवति । कुतस्तयोः
तादात्म्यमिति उभयविलक्षणम
तर्ह्यात्मनोऽप्यनिर्वाच्यत्वप्रसङ्गः । अथोच्येत । न३ । आनीदवातमिति तस्य स
न्मायाया एवात्र सत्त्वं निषिध्यत इति । एवमपि तदानीमिति विशेषणानर्थक्यं व्यवहारदशायामपि
१. त१.२.३.६.७.८ - भ - एषां । २. ग.त-भ२.५-सद्भावावस्थानमपि । ३. ग-त१.२.३.६.७.
८-भ- 'न' नास्ति ।