This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्धः - ३
 
."
 
प्रकृतीति । प्रकृतिर्मूलप्रकृतिः सर्वकारणत्वाद् या प्रधानमव्यक्तमविद्या माये-

त्यादिशब्दैरभिधीयते, महद् महत्तत्त्वं मूलप्रकृतिकार्यम्, अहङ्कारा महत उत्पन्नाः सा-

त्त्विकराजसतामसाः, मात्रास्तामसाहङ्कारकार्याण्यपञ्चीकृतपञ्चभूतानि शब्दस्पर्शरूप-

रसगन्धरूपाणि, भूतानि पञ्च महाभूतानि पृथिव्यप्तेजोवाय्वाकाशरूपाणि, हृद् म
-
नः, दशानामक्षाणामिन्द्रियाणां प्घ्राणरसनचक्षुः श्रोत्रत्वग्वाक्पाणिपादपायूपस्थानां

समाहारो दशाक्षी । एवं चतुर्विंशतितत्त्वानि । पूरुषः पुरुषो जीवेश्वरभेदाद् द्विधा

इति विदितो विभागो येन स तथा । असौ जीवः । प्रकृत्या मायया, तत्कार्यशरीरा-

दिबन्धैर्वा ॥ २ ॥
 
८४
 

 
ननु बन्धस्य वास्तवत्वे जीवस्य तस्माद् मोक्षो न स्यादित्याशङ्क्य तस्यावि-

द्याविलसितत्वेन ज्ञाननिवर्त्यत्वमाह----
 

 
प्रकृतिगतगुणौधैर्नाज्यते पूरुषोऽयं
 

यदि तु सजति तस्यां तद्गुणास्तं भजेरन् !

मदनुभजनतत्त्वालोचनैः साप्यपेयात्

कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ३ ॥
 

 
प्रकृतीति । प्रकृतिरिति प्रकृतिकार्यचतुर्विंशतितत्त्वमयानि जरायुजाण्डजस्वे-

दजोद्भिज्जानि चतुर्विधानि शरीराण्युच्यन्ते, तद्गतगुणौघाः कर्तृत्वभोक्तृत्वादयः,

तैर्नाज्यते नोपरज्यते। शरीरस्थोऽप्ययं जीवः परमार्थतः श<error>ररि</error><fix>रिर</fix>धर्मैः कर्तृत्वभोक्तृत्व-

जन्ममरणादिभिर्न लिप्यत इत्यर्थः । अयं पुरुषो यदि तस्यां प्रकृत्यां शरीरादौ सजति

अहं ममेत्यभिमन्यते, तर्हि तद्गुणाः प्रकृतिगुणास्तं भजेरन् जननमरणादिसंसार-

दुःखमनुभावयन्तीत्यर्थः । अत्र यदिशब्दः प्रकृतिसंबन्धस्यापरमार्थत्वं द्योतयति।

मदनुभजनमीश्वरप्रणिधानं, तत्त्वालोचनं ब्रह्मज्ञानं, तैः । तत्र श्रवणमनननिदिध्या-

सनरूपप्रकारभेदाद् बहुवचनम् । सा प्रकृतिरपेयात् । तदुक्तं "तीव्रेणात्मसमाधिना ।

प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम् । तिरोभवित्री" (श्रीभा. स्क. ३. अ.

२७. श्लो. २२, २३) इति ॥ ३ ॥
 

 
ईश्वरभजनस्याष्टाङ्गत्वमाह-
बि
-
 
वि
मलमतिरु<flag>पो</flag>त्तैरासनाद्यैर्मदङ्गं
 

गरुडसमधिरूढं दिव्यंभूपाषायुधाङ्कम् ।